🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 25

Sarga 25

20 verses

Verse 1
अथ तासां वदन्तीनां परुषं दारुणं बहु राक्षसीनामासौम्यानां रुरोद जनकात्मजा
Verse 2
एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी उवाच परमत्रस्ता भाष्पग्द्गदया गिरा
Verse 3
 मानुषी राक्षसस्य भार्या भवितुमर्हति कामं खादत मां सर्वा  करिष्यामि वो वचः
Verse 4
सा राक्षसीमध्यगता सीता सुरसुतोपमा  शर्म लेभे दुःखार्ता रावणेन  तर्जिता
Verse 5
वेपते स्माधिकं सीता विशन्ती वाङ्गमात्मनः वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता
Verse 6
सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् चिन्तयामास शोकेन भर्तारं भग्नमानसा
Verse 7
सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः चिन्तयन्ती  शोकस्य तदान्तमधिगच्छति
Verse 8
सा वेपमाना पतिता प्रवाते कदली यथा राक्षसीनां भयत्रस्ता विवर्णवदनाभवत्
Verse 9
तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा ददृशे कम्पिनी वेणी व्यालीव परिसर्पती
Verse 10
सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना आर्ता व्यसृजदश्रूणि मैथिली विललाप 
Verse 11
हा रामेति  दुःखार्ता हा पुनर्लक्ष्मणेति  हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी
Verse 12
लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा यदहमेवं क्रूराभी राक्षसीभिरिहार्दिता जीवामि हीना रामेण मुहूर्तमपि दुःखिता
Verse 13
लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा यदहमेवं क्रूराभी राक्षसीभिरिहार्दिता जीवामि हीना रामेण मुहूर्तमपि दुःखिता
Verse 14
एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता
Verse 15
भर्तारं तमपश्यन्ती राक्षसीवशमागता सीदामि खलु शोकेन कूलं तोयहतं यथा
Verse 16
तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम्
Verse 17
सर्वथा तेन हीनाया रामेण विदितात्मना तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम्
Verse 18
कीदृशं तु महापापं मया जन्मान्तरे कृतम् यनेदं प्राप्यते दुःखं मया घोरं सुदारुणम्
Verse 19
जीवितं त्यक्तुमिच्छामि शोकेन महता वृता राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया
Verse 20
धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम्  शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम्
0:000:00
Speed: