Book 5 • Chapter 26
Sarga 26
51 verses
Verse 1
प्रसक्ताश्रुमुखीत्यवं ब्रुवन्ती जनकात्मजा आधोगतमुखी बाला विलप्तुमुपचक्रमे
Verse 2
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती उपावृत्ता किशोरीव विवेष्टन्ती महीतले
Verse 3
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा रावणेन प्रमथ्याहमानीता क्रोशती बलात्
Verse 4
राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम् चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सुहे
Verse 5
न हि मे जीवितेनार्थो नैवार्थेर्न च भूषणैः वसन्त्या राक्षसीमध्ये विना रामं महारथम्
Verse 6
अश्मसारमिदं नूनमथवाप्यजरामरम् हृदयं मम येनेदं न दुःखेनावशीर्यते
Verse 7
धिङ्मामनार्यामसतीं याहं तेना विना कृता मुहूर्तमपि रक्षामि जीवितं पापजीविता
Verse 8
का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना भर्तारं सागरान्ताया वसुधायाः प्रियंवदम्
Verse 9
भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता
Verse 10
चरणेनापि सव्येन न स्पृशेयं निशाचरम् रावणं किं पुनरहं काममेयं विगर्हितम्
Verse 11
प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति
Verse 12
छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम्
Verse 13
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः सद्वृत्तो निरनुक्रोशश्शङ्के मद्भाग्यसङ्क्षयात्
Verse 14
राक्षसानां सहस्राणि जनस्थाने चतुर्दश येनैकेन निरस्तानि स मां किं नाभिपद्यते
Verse 15
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा समर्थः खलु मे भर्ता रावणं हन्तुमाहवे
Verse 16
विराधो दण्डकारण्ये येन राक्षसपुङ्गवः रणे रामेण निहतस्स मां किं नाभिपद्यते
Verse 17
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा न तु राघवबाणानां गतिरोधो भविष्यति
Verse 18
किन्नु तत्कारणं येन रामो दृढपराक्रमः रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते
Verse 19
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति
Verse 20
हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् गृध्रराजोऽपि स रणे रावणेन निपातितः
Verse 21
कृतं कर्म महत्तेन मां तथाऽभ्यवपद्यता तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा
Verse 22
यदि मामिह जानीयाद्वर्तमानां स राघवः अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम्
Verse 23
विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत्
Verse 24
ततो निहतनाथानां राक्षसीनां गृहे गृहे यथाहमेवं रुदती तथा भूयो न संशयः
Verse 25
अन्विष्य रक्षसां लङ्कां कुर्याद्रामस्सलक्ष्मणः न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति
Verse 26
चिताधूमाकुलपथा गृध्रमण्डलसङ्कुला अचिरेण तु लङ्केयं श्मशानसदृशी भवेत्
Verse 27
अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् दुष्प्रस्थानोऽयामाख्याति सर्वेषां वो विपर्ययम्
Verse 28
यादृशानीह दृश्यन्ते लङ्कायामशुभानि वै अचिरेणैव कालेन भविष्यति हतप्रभा
Verse 29
नूनं लङ्का हते पापे रावणे राक्षसाधमे शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा
Verse 30
पुण्योत्सवसमुत्था च नष्टभर्त्री सराक्षसी भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना
Verse 31
नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम्
Verse 32
सान्थकारा हतद्योता हतराक्षसपुङ्गवा भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः
Verse 33
यदि नाम स शूरो मां रामो रक्तान्तलोचनः जानीयाद्वर्तमानां हि रावणस्य निवेशने अनेन तु नृशंसेन रावणेनाधमेन मे समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः स च मे विहितो मृत्युरस्मिन् दुष्टे न वर्तते
Verse 34
यदि नाम स शूरो मां रामो रक्तान्तलोचनः जानीयाद्वर्तमानां हि रावणस्य निवेशने अनेन तु नृशंसेन रावणेनाधमेन मे समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः स च मे विहितो मृत्युरस्मिन् दुष्टे न वर्तते
Verse 35
अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः अधर्मात्तु महोत्पातो भविष्यति हि सांप्रतम् नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः
Verse 36
अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः अधर्मात्तु महोत्पातो भविष्यति हि सांप्रतम् नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः
Verse 37
ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति साहं कथं करिष्यामि तं विना प्रियदर्शनम् रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता
Verse 38
यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना
Verse 39
नाजानाज्जीवतीं रामस्स मां लक्ष्मणपूर्वजः जानन्तौ तौ न कुर्यातां नोर्य्वां हि मम मार्गणम्
Verse 40
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः देवलोकमितो यातस्त्यक्त्वा देहं महीतले
Verse 41
धन्या देवास्सगन्धर्वाः सिद्धाश्च परमर्षयः मम पश्यन्ति ये नाथं रामं राजीवलोचनम्
Verse 42
अथवा न हि तस्यार्थो धर्मकामस्य धीमतः मया रामस्य राजर्षेर्भार्यया परमात्मनः
Verse 43
दृश्यमाने भवेत्प्रीति स्सौहृदं नास्त्यपश्यतः नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति
Verse 44
किं नु मे न गुणाः केचित्किं वा भाग्यक्षयो मम याहं सीदामि रामेण हीना मुख्येन भामिनी
Verse 45
श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात्
Verse 46
अथवा न्यस्तशत्रौ तौ वने मूलफलाशिनौ भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ
Verse 47
अथवा राक्षसेन्द्रेण रावणेन दुरात्मना छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ
Verse 48
साऽहमेवङ्गते काले मर्तुमिच्छामि सर्वथा न च मे विहितो मृत्युरस्मिन् दुःखेऽपि वर्तते
Verse 49
धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः जितात्मनो महाभागा येषां न स्तः प्रियाप्रिये
Verse 50
प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम् ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम्
Verse 51
साहं त्यक्ता प्रियार्हेण रामेण विदितात्मना प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम्
0:000:00
Speed: