Book 5 • Chapter 27
Sarga 27
51 verses
Verse 1
इत्युक्तास्सीतया घोरं राक्षस्यः क्रोधमूर्छिताः काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः
Verse 2
ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन्
Verse 3
अद्येदानीं तवानार्ये सीते पापविनिश्चये राक्षस्यो भक्षयिष्यन्ति मांसमेतद्यथासुखम्
Verse 4
सीतां ताभिरनार्याभिर्दृष्टवा सन्तर्जितां तदा राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत्
Verse 5
आत्मानं खादतानार्या न सीतां भक्षयिष्यथ जनकस्य सुतामिष्टां स्नुषां दशरथस्य च
Verse 6
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः राक्षसानामभावाय भर्तुरस्या भवाय च
Verse 7
एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः सर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः
Verse 8
कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्युतम् उवच वचनं काले त्रिजटा स्वप्नसंश्रितम्
Verse 9
गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् युक्तां हंससहस्रेण स्वयमास्थाय राघवः शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः
Verse 10
गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् युक्तां हंससहस्रेण स्वयमास्थाय राघवः शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः
Verse 11
स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता
Verse 12
रामेण सङ्गता सीता भास्करेण प्रभा यथा राघवश्च मया दृष्टश्चतुर्दष्ट्रं महागजम् आरूढ श्शैलसङ्काशं चचार सहलक्ष्मणः
Verse 13
ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ
Verse 14
ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता
Verse 15
भर्तुरङ्कात्समुत्पत्य ततः कमललोचना चन्द्रसूर्यौ मया दृष्टा पाणिना परिमार्जती
Verse 16
ततस्ताभ्यां कुमाराभ्यामास्थित: स गजोत्तमः सीतया च विशालाक्ष्या लङ्काया उपरिस्थितः
Verse 17
पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् इहोपयातः काकुत्स्थ स्सीतया सह भार्यया
Verse 18
लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः
Verse 19
लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः
Verse 20
एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः लक्ष्मणेन सह भ्रात्रा सीतया सह राघवः
Verse 21
न हि रामो महातेजाश्शक्यो जेतुं सुरासुरैः राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव
Verse 22
रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः रक्तवासाः पिबन्मत्तः करवीरकृतस्रजः
Verse 23
विमानात्पुष्पकादद्य रावणः पतितो भुवि कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः
Verse 24
रथेन खरयुक्तेन रक्तमाल्यानुलेपनः पिपंस्तैलं हसन्नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः
Verse 25
गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः पुनरेव मया दृष्टो रावणो राक्षसेश्वरः पतितोऽ वाक्चिरा रा भूमौ गर्दभाद्भयमोहितः
Verse 26
सहसोत्थाय संभ्रान्तो भयार्तो मदविह्वलः उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन्बहु दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम् मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः
Verse 27
सहसोत्थाय संभ्रान्तो भयार्तो मदविह्वलः उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन्बहु दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम् मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः
Verse 28
कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति
Verse 29
एवं तत्र मया दृष्टः कुम्भकर्णो निशाचरः रावणस्य सुतास्सर्वे दृष्टास्तैलसमुक्षिताः
Verse 30
वराहेण दशग्रीवश्शिंशुमारेण चेन्द्रजित् उष्ट्रेण कुम्भकर्णश्च प्रयाता दक्षिणां दिशम्
Verse 31
एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः
Verse 32
शङ्खदुन्धुभिनिर्घोषैर्नृत्तगीतैरलङ्कृतः आरुह्य शैलसङ्काशं मेघस्तनितनिस्स्वनम् चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः चतुर्भिस्सचिवैः सार्थं वैहायसमुपस्थितः
Verse 33
शङ्खदुन्धुभिनिर्घोषैर्नृत्तगीतैरलङ्कृतः आरुह्य शैलसङ्काशं मेघस्तनितनिस्स्वनम् चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः चतुर्भिस्सचिवैः सार्थं वैहायसमुपस्थितः
Verse 34
समाजश्च मया दृष्टो गीतवादित्रनिःस्वनः पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्
Verse 35
लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जराः सागरे पतिता दृष्टा भग्नगोपुरतोरणा
Verse 36
लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता दग्धा रामस्य दूतेन वानरेण तरस्विना
Verse 37
पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः लङ्कायां भस्मरूक्षायां सर्वा राक्षसस्त्रियः
Verse 38
कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे
Verse 39
अपगच्छत नश्यध्वं सीतामाप्नोति राघवः घातयेत्परमामर्षी युष्मान्सार्थं हि राक्षसैः
Verse 40
प्रियां बहुमतां भार्यां वनवासमनुव्रताम् भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः
Verse 41
तदलं क्रूरवाक्यैश्च सान्त्वमेवाभिधीयताम् अभियाचाम वैदेहीमेतद्धि मम रोचते
Verse 42
यस्यामेवंविधः स्वप्नो दुःखितायां प्रदृश्यते सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम्
Verse 43
भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया राघवाद्धि भयं घोरं राक्षसानामुपस्थितम्
Verse 44
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा अलमेषा परित्रातुं राक्षस्यो महतो भयात्
Verse 45
अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षणम्
Verse 46
छायावैगुण्यमात्रं तु शङ्के दुःखमुपस्थितम् अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम्
Verse 47
अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् राक्षसेन्द्रविनाशं च विजयं राघवस्य च
Verse 48
निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम् दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम्
Verse 49
ईषच्छ हृषितो वास्या दक्षिणाया ह्यदक्षिणः अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते
Verse 50
करेणुहस्तप्रतिम स्सव्यश्चोरुरनुत्तमः वेपमानः सूचयति राघवं पुरतः स्थितम्
Verse 51
पक्षी च शाखानिलयं प्रविष्टः पुनः पुनश्चोत्तमसान्त्ववादी सुस्वागतां वाचमुदीरयानः पुनः पुनश्चोदयतीव हृष्टः
0:000:00
Speed: