🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 28

Sarga 28

19 verses

Verse 1
सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या
Verse 2
सा राक्षसीमध्यगता  भीरु र्वाग्भिर्भृशं रावणतर्जिता  कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता
Verse 3
सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः यत्राहमेवं परिभर्त्स्यमाना जीवामि दीना क्षणमप्यपुण्या
Verse 4
सुखाद्विहीनं बहुदुःखपूर्ण मिदं तु नूनं हृदयं स्थिरं मे विशीर्यते यन्न सहस्रधाऽद्य वज्राहतं शृङ्गमिवाचलस्य
Verse 5
नैवास्ति दोषो मम नूनमत्र वध्याहमस्याप्रियदर्शनस्य भावं  चास्याहमनुप्रदातु मलं द्विजो मन्त्रमिवाद्विजाय
Verse 6
नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैश्शितैश्छेत्स्यति राक्षसेन्द्रः तस्मिननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः
Verse 7
दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ बद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य
Verse 8
हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढवाता
Verse 9
तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ नूनं विशस्तौ मम कारणात्तौ सिंहर्षभौ द्वाविव वैद्युतेन
Verse 10
नूनं  कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम् यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं 
Verse 11
हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्त्र हा जीवलोकस्य हितः प्रियश्च वध्यां  मां वेत्सि हि राक्षसानाम्
Verse 12
अनन्य दैवत्वमियं क्षमा  भूमौ  शय्या नियमश्च धर्मे पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम्
Verse 13
मोघो हि धर्मश्चरितो मयायं तथैकपत्नीत्वामिदं निरर्थम् या त्वां  पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा
Verse 14
पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः
Verse 15
अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा मोघं चरित्वाथ तपो व्रतञ्च त्यक्ष्यामि धिग्जीवितमल्पभाग्याम्
Verse 16
सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि विषस्य दाता  हि मेऽस्ति कश्चि च्छस्त्रस्य वा वेश्मनि राक्षसस्य
Verse 17
इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद
Verse 18
सा शोकतप्ता बहुधा विचिन्त्य सीताऽथ वेण्युद्ग्रथनं गृहीत्वा उद्बुध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम्
Verse 19
उपस्थिता सा मृदुसर्वगात्री शाखां गृहत्वाऽध नगस्य तस्य तस्यास्तु रामं प्रविचिन्तयन्त्या रामानुजं स्वं  कुलं शुभाङ्ग्या: शेकानिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि
0:000:00
Speed: