🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 29

Sarga 29

8 verses

Verse 1
तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम् शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः
Verse 2
तस्याः शुभं वाममरालपक्ष्म राजीवृतं कृष्णविशालशुक्लम् प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम्
Verse 3
भुजश्च चार्वञ्चितपीनवृत्तः परार्थ्यकालागरुचन्दनार्हः अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताऽशु
Verse 4
गजेन्द्रहस्तप्रतिमश्च पीन स्तयोर्द्वयोः सम्हतयोः सुजातः प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे
Verse 5
शुभं पुनर्हेमसमानवर्ण मीषद्रजोध्वस्तमिवामलाक्ष्याः वास स्स्थिताया श्शिखराग्रदन्त्याः किञ्चित्परिस्रंसत चारुगात्य्राः
Verse 6
एतैर्निमित्तैरपरैश्च सुभ्रूः सम्बोधिता प्रागपि साधु सिद्धैः वातातपक्लान्तमिव प्रणष्टं वर्षेण बीजं प्रतिसंजहर्ष
Verse 7
तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रुकेशान्तमरालपक्ष्म वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः
Verse 8
सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविबुद्धसत्त्वा अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन
0:000:00
Speed: