Book 5 • Chapter 30
Sarga 30
44 verses
Verse 1
हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम्
Verse 2
अवेक्षमाणस्तां देवीं देवतामिव नन्दने ततो बहुविधां चिन्तां चिन्तयामास वानरः
Verse 3
यां कपीनां सहस्राणि सुबहून्ययुतानि च दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया
Verse 4
चारेण तु सुयुक्तेन शत्रोश्शक्तिमवेक्षता गूढेन चरता तावदवेक्षितमिदं मया
Verse 5
राक्षसानां विशेषश्च पुरी चेयमवेक्षिता राक्षसाधिपतेरस्य प्रभावो रावणस्य च
Verse 6
युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम्
Verse 7
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम्
Verse 8
यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत्
Verse 9
गते हि मयि तत्रेयं राजपुत्री यशस्विनी परित्राणमविन्दन्ती जानकी जीवितं त्यजेत्
Verse 10
मया च स महाबाहुः पूर्णचन्द्रनिभाननः समाश्यासयितुं न्याय्यस्सीतादर्शनलालसः
Verse 11
निशाचरीणां प्रत्यक्षमनर्हं चाभिभाषितम् कथन्नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम्
Verse 12
अनेन रात्रिशेषेण यदि नाश्वास्यते मया सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम्
Verse 13
रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः किमहं तं प्रति ब्रूयामसंभाष्य सुमध्यमाम्
Verse 14
सीतासन्देशरहितं मामितस्त्वरयाऽगतम् निर्दहेदपि काकुत्स्य क्रुद्धस्तीव्रेण चक्षुषा
Verse 15
यदि चोद्योजयिष्यामि भर्तारं रामकारणात् व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति
Verse 16
अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः शनैराश्वासयिष्यामि सन्तापबहुळामिमाम्
Verse 17
अहं त्वतितनुश्चैव वानरश्च विशेषतः वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्
Verse 18
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् रावणं मन्यमाना मां सीता भीता भविष्यति वानरस्य विशेषेण कथं स्यादभिभाषणम्
Verse 19
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता
Verse 20
सेयमालोक्य मे रूपं जानकी भाषितं तथा रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति
Verse 21
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी जानमाना विशालाक्षी रावणं कामरूपिणम्
Verse 22
सीतया च कृते शब्दे सहसा राक्षसीगणा: नानाप्रहरणो घोर: समेयादन्तकोपम:
Verse 23
ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम्
Verse 24
गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः
Verse 25
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः
Verse 26
ततः कुर्युस्समाह्वानं राक्षस्यो रक्षसामपि राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने
Verse 27
ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः आपतेयुर्विमर्देऽस्मिन्वेगेनोद्वेगकारणात्
Verse 28
समृद्धस्तैस्तु परितो विधमन् रक्षसां बलम् शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः
Verse 29
मां वा गृह्णीयुराप्लुत्य बहवश्शीघ्रकारिणः स्यादियं चागृहीतार्था मम च ग्रहणं भवेत्
Verse 30
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम्
Verse 31
उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते सागरेण परिक्षिप्ते गुप्ते वसति जानकी
Verse 32
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे नान्यं पश्यामि रामस्य सहायं कार्यसाधने
Verse 33
विमृशंश्च न पश्यामि यो हते मयि वानरः शतयोजनविस्तीर्णं लङ्घयेत महोदधिम्
Verse 34
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् न तु शक्ष्यामि सम्प्राप्तुं परं पारं महोदधेः
Verse 35
असत्यानि च युद्धानि संशयो मे न रोचते कश्च निस्संशयं कार्यं कुर्यात्प्राज्ञः ससंशयम्
Verse 36
प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे एष दोषो महान्हि स्यान्मम सीताभिभाषणे
Verse 37
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः विक्लबं दूतमासाद्य तमः सूर्योदये यथा
Verse 38
अर्थानर्थान्तरे बुद्धिनिश्चितापि न शोभते घातयन्ति हि कार्याणि दूताः पण्डितमानिनः
Verse 39
न विनश्येत्कथं कार्यं वैक्लब्यं न कथं भवेत् लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्
Verse 40
कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत वा इति सञ्चिन्त्य हनुमांश्चकार मतिमान्मतिम्
Verse 41
राममक्लिष्टकर्माणं सुबन्धुमनुकीर्तयन् नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम्
Verse 42
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः शुभानि धर्मयुक्तानि वचनानि समर्पयन् श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् श्रद्धास्यति यथाहीयं तथा सर्वं समादधे
Verse 43
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः शुभानि धर्मयुक्तानि वचनानि समर्पयन् श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् श्रद्धास्यति यथाहीयं तथा सर्वं समादधे
Verse 44
इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान्
0:000:00
Speed: