🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 31

Sarga 31

19 verses

Verse 1
एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार 
Verse 2
राजा दशरथो नाम रथकुञ्जरवाजिमान् पुण्यशीलो महाकीर्तिरिक्ष्वाकूणां महायशाः
Verse 3
राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभि स्समः चक्रवर्तिकुले जातः पुरन्दरसमो बले
Verse 4
अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवान् लक्ष्मिवर्धनः
Verse 5
पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः पृथिव्यां चतुरन्तायां विश्रुतस्सुखदस्सुखी
Verse 6
तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः रामो नाम विशेषज्ञः श्रेष्ठ स्सर्वधनुष्मताम्
Verse 7
रक्षिता स्वस्य धर्मस्य स्वजनस्य  रक्षिता रक्षिता जीवलोकस्य धर्मस्य  परन्तपः
Verse 8
तस्य सत्याभिसन्धस्य वृद्धस्य वचनात्पितुः सभार्यस्सह  भ्रात्रा वीरः प्रव्राजितो वनम्
Verse 9
तेन तत्र महारण्ये मृगयां परिधावता राक्षसा निहताश्शूरा बहवः कामरूपिणः
Verse 10
जनस्थानवधं श्रुत्वा हतौ  खरदूषणौ ततस्त्वमर्षापहृता जानकी रावणेन तु वञ्चयित्वा वने रामं मृगरूपेण मायया
Verse 11
 मार्गमाणस्तां देवीं रामस्सीतामनिन्दिताम् आससाद वने मित्रं सुग्रीवं नाम वानरम्
Verse 12
तत स्स वालिनं हत्वा रामः परपुरञ्जयः प्रायच्छत्कपिराज्यं तत्सुग्रीवाय महाबलः
Verse 13
सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः
Verse 14
अहं सम्पातिवचनाच्छतयोजनमायतम् अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान्प्लुतः
Verse 15
यथारूपां यथावर्णां यथालक्ष्मीवतीं  निश्चिताम् अश्रौषं राघवस्याहं सेयमासादिता मया
Verse 16
विररामैवमुक्त्वासौ वाचं वानरपुङ्गवः जानकी चापि तच्छ्रुत्वा परं विस्मयमागता
Verse 17
ततस्सा वक्रकेशान्ता सुकेशी केशसंवृतम् उन्नम्य वदनं भीरुश्शिंशुपावृक्षमैक्षत
Verse 18
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती
Verse 19
सा तिर्यगूर्ध्वं  तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम् ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम्
0:000:00
Speed: