🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 32

Sarga 32

14 verses

Verse 1
ततश्शाखान्तरे लीनं दृष्ट्वा चलितमानसा वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम्
Verse 2
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम्
Verse 3
मैथिली चिन्तयामास विस्मयं परमं गता अहो भीममिदं रूपं वानरस्य दुरासदम् दुर्निरीक्षमिति ज्ञात्वा पुनरेव मुमोह सा
Verse 4
विललाप भृशं सीता करुणं भयमोहिता रामरामेति दुःखार्ता लक्ष्मणेति  भामिनी रुरोद बहुधा सीता मन्दं मन्दस्वरा सती
Verse 5
विललाप भृशं सीता करुणं भयमोहिता रामरामेति दुःखार्ता लक्ष्मणेति  भामिनी रुरोद बहुधा सीता मन्दं मन्दस्वरा सती
Verse 6
सा तं दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी
Verse 7
सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम् ददर्श पिङ्गाधिपते रमात्यं वातात्मजं बुद्धिमतां वरिष्ठम्
Verse 8
सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेन बभूव सीता चिरेण संज्ञां प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा
Verse 9
स्वप्ने मयाऽयं विकृतोऽद्य दृष्टश्शाखामृगश्शास्त्रगणैर्निषिद्धः स्वस्त्यस्तु रामाय  लक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः
Verse 10
स्वप्नोऽपि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन  पीडितायाः सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन
Verse 11
रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव तस्यानुरूपां  कथां तदर्थमेवं प्रपश्यामि तथा शृणोमि
Verse 12
अहं हि तस्याद्य मनोभवेन सम्पीडिता तद्गतसर्वभावा विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि
Verse 13
मनोरथस्स्यादिति चिन्तयामि तथापि बुद्ध्या  वितर्कयामि किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम्
Verse 14
नमोऽस्तु वाचस्पतये सवज्रिणे स्वयंभुवे चैव हुताशनाय  अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्छ तथास्तु नान्यथा
0:000:00
Speed: