🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 33

Sarga 33

31 verses

Verse 1
सोऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः विनीतवेषः कृपणः प्रणिपत्योपसृत्य  तामब्रवीन्महातेजा हनूमान्मारुतात्मजः शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा
Verse 2
सोऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः विनीतवेषः कृपणः प्रणिपत्योपसृत्य  तामब्रवीन्महातेजा हनूमान्मारुतात्मजः शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा
Verse 3
का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते
Verse 4
किमर्थम् तव नेत्राभ्यां वारि स्रवति शोकजम् पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम्
Verse 5
सुराणामसुराणां वा नागगन्धर्वरक्षसाम् यक्षाणां किन्नराणां वा का त्वं भवसि शोभने
Verse 6
का त्वं भवसि रुद्राणां मरुतां वा वरानने वसूनां हि वरारोहे देवता प्रतिभासि मे
Verse 7
कि नु चन्द्रमसा हीना पतिता विबुधालयात् रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता
Verse 8
का त्वं भवसि कल्याणि त्वमनिन्दितलोचने कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती
Verse 9
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि
Verse 10
रोदनादतिनिश्श्वासाद्भूमिसंस्पर्शनादपि  त्वां देवीमहं मन्ये राज्ञ स्सर्वज्ञावधारणात्
Verse 11
व्यञ्जनानि  ते यानि लक्षणानि  लक्षये महिषी भूमिपालस्य राजकन्या  मे मता
Verse 12
रावणेन जनस्थानाद्बलादपदहृता यदि सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः
Verse 13
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम्
Verse 14
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम्
Verse 15
पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः
Verse 16
दुहिता जनकस्याहं वैदेहस्य महात्मनः सीतेति नाम नाम्नाऽहं भार्या रामस्य धीमतः
Verse 17
समा द्वादश तत्राहं राघवस्य निवेशने भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी
Verse 18
तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे
Verse 19
तस्मिन्सम्भ्रियमाणे तु राघवस्याभिषेचने कैकयी नाम भर्तारं देवी वचनमब्रवीत्
Verse 20
 पिबेयं  खादेयं प्रत्यहं मम भोजनम् एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते
Verse 21
यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम तच्छेन्न वितथं कार्यं वनं गच्छतु राघवः
Verse 22
 राजा सत्यवाग्देव्या वरदानमनुस्मरन् मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्
Verse 23
ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत
Verse 24
 पितुर्वचनं श्रीमानभिषेकात्परं प्रियम् मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान्
Verse 25
दद्यान्न प्रतिगृह्णीयान्न ब्रूयात्किञ्चिदप्रियम् अपि जीवितहेतोर्वा रामस्सत्यपराक्रमः
Verse 26
 विहायोत्तरीयाणि महार्हाणि महायशाः विसृज्य मनसा राज्यं जनन्यै मां समादिशत्
Verse 27
साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी  हि मे तेन हीनाया वासस्स्वर्गेऽपि रोचते
Verse 28
प्रागेव तु महाभागस्सौमित्रिर्मित्रनन्दनः पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलङ्कृतः
Verse 29
ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः प्रविष्टास्स्म पुरादृष्टं वनं गम्भीरदर्शनम्
Verse 30
वसतो दण्डकारण्ये तस्याहममितौजसः रक्षसाऽपहृता भार्या रावणेन दुरात्मना
Verse 31
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्तक्ष्यामि जीवितम्
0:000:00
Speed: