Book 5 • Chapter 34
Sarga 34
41 verses
Verse 1
तस्यास्तद्वचनं श्रुत्वा हनुमान्हरिपुङ्गवः दुःखाद्दुःखाभिभूताया स्सान्त्वमुत्तरमब्रवीत्
Verse 2
अहं रामस्य सन्देशाद्देवि दूतस्तवागतः वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत्
Verse 3
यो ब्रह्ममस्त्रं वेदांश्च वेद वेदविदांवरः स त्वां दाशरथी रामो देवि कौशलमब्रवीत्
Verse 4
लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः कृतवान्शोकसन्तप्तश्शिरसा तेऽभिवादनम्
Verse 5
सा तयोः कुशलं देवी निशम्य नरसिंहयोः प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत्
Verse 6
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा एति जीवन्तमानन्दो नरं वर्षशतादपि
Verse 7
तया समागते तस्मिन्प्रीतिरुत्पादिताऽद्भुता परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः
Verse 8
तस्यास्तद्वचनं श्रुत्वा हनुमान्हरियूथपः सीतायाश्शोकदीनायास्समीपमुपचक्रमे
Verse 9
यथा यथा समीपं स हनुमानुपसर्पति तथा तथा रावणं सा तं सीता परिशङ्कते
Verse 10
अहो धिग्दुष्कृतमिदं कथितं हि यदस्य मे रूपान्तरमुपागम्य स एवायं हि रावणः
Verse 11
तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत्
Verse 12
हनुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम् अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत
Verse 13
तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना अब्रवीद्धीर्घमुच्छवस्य वानरं मधुरस्वरा
Verse 14
मायां प्रविष्टो मायावी यदि त्वं रावणस्स्वयम् उत्पादयसि मे भूयस्सन्तापं तन्न शोभनम्
Verse 15
स्वं परित्यज्य रूपं यः परिव्राजकरूपध्रुत् जनस्थाने मया दृष्टस्त्वं स एवासि रावणः
Verse 16
उपवासकृशां दीनां कामरूप निशाचर सन्तापयसि मां भूयस्सन्तप्तां तन्न शोभनम्
Verse 17
अथवा नैतदेवं हि यन्मया परिशङ्कितम् मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात्
Verse 18
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे
Verse 19
गुणान्रामस्य कथय प्रियस्य मम वानर चित्तं हरसि मे सौम्य नदीकूलं यथा रयः
Verse 20
अहो स्वप्नस्य सुखता याहमेवं चिराहृता प्रेषितं नाम पश्यामि राघवेण वनौकसम्
Verse 21
स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी
Verse 22
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम
Verse 23
किन्नु स्याचित्तमोहोऽयं भवेद्वातगतिस्त्वियम् उन्मादजो विकारो वा स्यादियं मृगतृष्णिका
Verse 24
अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः सम्बुध्ये चाहमात्मानमियं चापि वनौकसम्
Verse 25
इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम् रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम्
Verse 26
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा न प्रतिव्याजहाराथ वानरं जनकात्मजा
Verse 27
सीतायाश्चिन्तितं बुद्ध्वा हनुमान्मारुतात्मजः श्रोत्रानुकूलैर्वचनैस्तदा तां संप्रहर्षयत्
Verse 28
आदित्य इव तेजस्वी लोककान्तश्शशी यथा राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः
Verse 29
आदित्य इव तेजस्वी लोककान्तश्शशी यथा राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः
Verse 30
सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा रूपवान्सुभग श्रीमान् कन्दर्प इव मूर्तिमान्
Verse 31
स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः
Verse 32
अपकृष्याश्रमपदान्मृगरूपेण राघवम् शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम्
Verse 33
न चिराद्रावणं संख्ये यो वधिष्यति वीर्यवान् रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः तेनाहं प्रेषितो दूत स्त्वत्सकाशमिहागतः त्वद्वियोगेन दुःखार्त स्स त्वां कौशलमब्रवीत्
Verse 34
न चिराद्रावणं संख्ये यो वधिष्यति वीर्यवान् रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः तेनाहं प्रेषितो दूत स्त्वत्सकाशमिहागतः त्वद्वियोगेन दुःखार्त स्स त्वां कौशलमब्रवीत्
Verse 35
लक्ष्मणश्च महातेजास्सुमित्रानन्दवर्धनः अभिवाद्य महाबाहुस्स त्वां कौशलमब्रवीत्
Verse 36
रामस्य च सखा देवि सुग्रीवो नाम वानरः राजा वानरमुख्यानां स त्वां कौशलमब्रवीत्
Verse 37
नित्यं स्मरति रामस्त्वां ससुग्रीव स्सलक्ष्मणः दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता
Verse 38
नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम् मध्ये वानरकोटीनां सुग्रीवं चामितौजसम्
Verse 39
अहं सुग्रीवसचिवो हनुमान्नाम वानरः प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम्
Verse 40
कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम्
Verse 41
नाहमस्मि तथा देवि यथा मामवगच्छसि विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम
0:000:00
Speed: