🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 35

Sarga 35

89 verses

Verse 1
तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात् उवाच वचनं सान्त्वमिदं मधुरया गिरा
Verse 2
क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् वानराणां नराणां  कथमासीत्समागमः
Verse 3
यानि रामस्य लिङ्गानि लक्ष्मणस्य  वानर तानि भूयस्समाचक्ष्व  मां शोकस्समाविशेत्
Verse 4
कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् कथमूरू कथं बाहू लक्ष्मणस्य  शंस मे
Verse 5
एवमुक्तस्तु वैदेह्या हनुमान्मारुतात्मजः ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे
Verse 6
जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि भर्तुः कमलपत्त्राक्षि संस्थानं लक्ष्मणस्य 
Verse 7
यानि रामस्य चिह्नानि लक्ष्मणस्य  यानि वै लक्षितानि विशालाक्षि वदतश्शृणु तानि मे
Verse 8
रामः कमलपत्त्राक्ष स्सर्वसत्त्वमनोहरः रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे
Verse 9
तेजसाऽदित्य सङ्काशः क्षमया पृथिवीसमः बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः
Verse 10
रक्षिता जीवलोकस्य स्वजनस्याभिरक्षिता रक्षिता स्वस्य वृत्तस्य धर्मस्य  परन्तपः
Verse 11
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता मर्यादानां  लोकस्य कर्ता कारयिता  सः
Verse 12
अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम्
Verse 13
राजविद्याविनीतश्च ब्राह्मणानामुपासिता श्रुतवान्शीलसम्पन्नो विनीतश्च परन्तपः
Verse 14
यजुर्वेदविनीतश्च वेदविद्भिस्सुपूजितः धनुर्वेदे  वेदेषु वेदाङ्गेषु  निष्ठितः
Verse 15
विपुलांसो महाबाहुः कम्बुग्रीवश्शुभाननः गूढजत्रुस्सुताम्राक्षो रामो देवि जनै श्श्रुतः
Verse 16
दुन्दुभिस्वननिर्घोष स्स्निग्धवर्णः प्रतापवान् सम स्समविभक्ताङ्गो वर्णं श्यामं समाश्रितः
Verse 17
त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः त्रिताम्रस्त्रिषु  स्निग्धो गम्भीरस्त्रिषु नित्यशः
Verse 18
त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान् चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतु स्समः
Verse 19
चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्गतिः महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान्
Verse 20
दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान् षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः
Verse 21
सत्यधर्मपरश्श्रीमान् सङ्ग्रहानुग्रहे रतः देशकालविभागज्ञस्सर्वलोकप्रियंवदः
Verse 22
भ्राता तस्य  द्वैमात्रस्सौमित्रिरपराजितः अनुरागेण रूपेण गुणैश्चैव तथाविधः
Verse 23
तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ
Verse 24
त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम्
Verse 25
त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम्
Verse 26
वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् परिचर्यामहे राज्यात्पूर्वजेनावरोपितम्
Verse 27
ततस्तौ चीरवसनौ धनुः प्रवरपाणिनौ ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ
Verse 28
 तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः
Verse 29
ततस्स शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितः तयोस्समीपं मामेव प्रेषयामास सत्वरम्
Verse 30
तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः
Verse 31
तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ
Verse 32
निवेदितौ  तत्त्वेन सुग्रीवाय महात्मने तयोरन्योन्यसल्लापाद्भृशं प्रीतिरजायत
Verse 33
ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ परस्परकृताश्वासौ कथया पूर्ववृत्तया
Verse 34
ततस्स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा
Verse 35
ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्
Verse 36
 श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान्
Verse 37
ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया यान्याभरणजालानि पातितानि महीतले तानि सर्वाणि रामाय आनीय हरियूथपाः संहृष्टा दर्शयामासुर्गतिं तु  विदुस्तव
Verse 38
ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया यान्याभरणजालानि पातितानि महीतले तानि सर्वाणि रामाय आनीय हरियूथपाः संहृष्टा दर्शयामासुर्गतिं तु  विदुस्तव
Verse 39
तानि रामाय दत्तानि मयैवोपहृतानि  स्वनवन्त्यवकीर्णानि तस्मिन्विगतचेतसि
Verse 40
तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव तेन देवप्रकाशेन देवेन परिदेवितम्
Verse 41
पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः प्रादीपयन्दाशरथेस्तानि शोकहुताशनम्
Verse 42
शयितं  चिरं तेन दुःखार्तेन महात्मना मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः
Verse 43
तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः राघवस्सह सौमित्रिस्सुग्रीवे  न्यवेदयत्
Verse 44
 तवादर्शनादार्ये राघवः परितप्यते महता ज्वलता नित्यमग्निनेवाग्निपर्वतः
Verse 45
त्वत्कृते तमनिद्रा  शोकश्चिन्ता  राघवम् तापयन्ति महात्मानमग्न्यगारमिवाग्नयः
Verse 46
तवादर्शनशोकेन राघवः प्रविचाल्यते महता भूमिकम्पेन महानिव शिलोच्चयः
Verse 47
काननानि सुरम्याणि नदीः प्रस्रवणानि  चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे
Verse 48
 त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः समित्रबान्धवं हत्वा रावणं जनकात्मजे
Verse 49
सहितौ रामसुग्रीवावुभावकुरुतां तदा समयं वालिनं हन्तुं तव चान्वेषणं तथा
Verse 50
ततस्ताभ्यां कुमाराभ्यां वीराभ्यां  हरीश्वरः किष्किन्धां समुपागम्य वाली युद्धे निपातितः
Verse 51
ततो निहत्य तरसा रामो वालिनमाहवे सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत्पतिम्
Verse 52
रामसुग्रीवयोरैक्यं देव्येवं समजायत हनुमन्तं  मां विद्धि तयोर्दूतमिहागतम्
Verse 53
स्वराज्यं प्राप्य सुग्रीवस्समानीय हरीश्वरान् त्वदर्थं प्रेषयामास दिशो दश महाबलान्
Verse 54
आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा अद्रिराजप्रतीकाशास्सर्वतः प्रस्थितौ महीम्
Verse 55
ततस्ते मार्गमाणा वै सुग्रीववचनातुराः चरन्ति वसुधां कृत्स्नां वयमन्ये  वानराः
Verse 56
अङ्गदो नाम लक्ष्मीवान्वालिसूनुर्महाबलः प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः
Verse 57
तेषां नो विप्रणष्टानां विन्ध्ये पर्वतसत्तमे भृशं शोकपरीतानामहोरात्रगणा गताः
Verse 58
ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण  भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः
Verse 59
विचित्य वनदुर्गाणि गिरिप्रस्रवणानि  अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः
Verse 60
दृष्ट्वा प्रायोपविष्टांश्च सर्वान्वानरपुङ्गवान् भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः तव नाशं  वैदेहि वालिनश्च वधं तथा प्रायोपवेशमस्माकं मरणं  जटायुषः
Verse 61
दृष्ट्वा प्रायोपविष्टांश्च सर्वान्वानरपुङ्गवान् भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः तव नाशं  वैदेहि वालिनश्च वधं तथा प्रायोपवेशमस्माकं मरणं  जटायुषः
Verse 62
तेषां नस्वामिसन्देशान्निराशानां मुमूर्षताम् कार्यहेतोरिवायातश्शकुनिर्वीर्यवान्महान्
Verse 63
गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत्
Verse 64
यवीयान्केन मे भ्राता हतः क्व  निपातितः एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः
Verse 65
अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम् रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम्
Verse 66
जटायुषो वधं श्रुत्वा दुःखितस्सोऽरुणात्मजः त्वां शशंस वरारोहे वसन्तीं रावणालये
Verse 67
तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम् अङ्गदप्रमुखास्तूर्णं ततस्सम्प्रस्थिता वयम्
Verse 68
विन्ध्यादुत्थाय सम्प्राप्ता स्सागरस्यान्तमुत्तरम् त्वद्धर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः
Verse 69
अङ्गदप्रमुखास्सर्वे वेलोपान्तमुपस्थिताः चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः
Verse 70
अथाहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः
Verse 71
लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला रावणश्च मया दृष्टस्त्वं  शोकपरिप्लुता
Verse 72
एतत्ते सर्वमाख्यातं यथावृत्तमनन्दिते अभिभाषस्व मां देवि दूतो दाशरथेरहम्
Verse 73
तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् सुग्रीवसचिवं देवि बुद्ध्यस्व पवनात्मजम्
Verse 74
कुशली तव काकुत्स्थस्सर्वशस्त्रभृतां वरः गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः
Verse 75
तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः अहमेकस्तु सम्प्राप्त स्सुग्रीववचनादिह
Verse 76
मयेयमसहायेन चरता कामरूपिणा दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा
Verse 77
दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम् अपनेष्यामि सन्तापं तवाभिगमशंसनात्
Verse 78
दिष्ट्या हि मम  व्यर्थं देवि सागरलङ्घनम् प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः
Verse 79
राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते समित्रबान्धवं हत्वा रावणं राक्षसाधिपम्
Verse 80
माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ततो गच्छति गोकर्णं पर्वतं केसरी हरिः
Verse 81
  देवर्षिभिर्दिष्टः पिता मम महाकपिः तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत्
Verse 82
तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि हनुमानिति विख्यातो लोके स्वेनैव कर्मणा
Verse 83
विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः अचिराद्राघवो देवि त्वामितो नयिताऽनघे
Verse 84
एवं विश्वासिता सीता हेतुभिश्शोककर्शिता उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति
Verse 85
अतुलं  गता हर्षं प्रहर्षेण  जानकी नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम्
Verse 86
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्
Verse 87
हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम्
Verse 88
एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि किं करोमि कथं वा ते रोचते प्रतियाम्यहम्
Verse 89
हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः
0:000:00
Speed: