🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 36

Sarga 36

47 verses

Verse 1
भूय एव महातेजा हनूमान्पवनात्मजः अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात्
Verse 2
वानरोऽहं महाभागे दूतो रामस्य धीमतः रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम्
Verse 3
प्रत्ययार्थं तवाऽनीतं तेन दत्तं महात्मना समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि
Verse 4
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् भर्तारमिव सम्प्राप्ता जानकी मुदिताऽभवत्
Verse 5
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्
Verse 6
ततस्सा ह्रीमती बाला भर्तृसन्देशहर्षिता परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम्
Verse 7
विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम्
Verse 8
शतयोजनविस्तीर्ण स्सागरो मकरालयः विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः
Verse 9
 हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ यस्य ते नास्ति सन्त्रासो रावणान्नापि सम्भ्रमः
Verse 10
अर्हसे  कपिश्रेष्ठ मया समभिभाषितुम् यद्यसि प्रेषितस्तेन रामेण विदितात्मना
Verse 11
प्रेषयिष्यति दुर्धर्षो रामो  ह्यपरीक्षितम् पराक्रममविज्ञाय मत्सकाशं विशेषतः
Verse 12
दिष्ट्या  कुशली रामो धर्मात्मा सत्यसङ्गरः लक्ष्मणश्च महातेजास्सुमित्रानन्दवर्धनः
Verse 13
कुशली यदि काकुत्स्थः किं नु सागरमेखलाम् महीं दहति कोपेन युगान्ताग्निरिवोत्थितः
Verse 14
अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे ममैव तु  दुःखानामस्ति मन्ये विपर्ययः
Verse 15
कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते उत्तराणि  कार्याणि कुरुते पुरुषोत्तमः
Verse 16
कच्चिन्न दीन स्सम्भ्रान्तः कार्येषु   मुह्यति कच्चित्पुरुषकार्याणि कुरुते नृपतेस्सुतः
Verse 17
द्विविधं त्रिविधोपायमुपायमपि सेवते विजिगीषुस्सुहृत्कच्चिन्मित्रेषु  परन्तपः
Verse 18
कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते कच्चित्कल्याणमित्त्रश्च मित्रत्त्रैश्चापि पुरस्कृतः
Verse 19
कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः कच्चित्पुरुषकारं  दैवं  प्रतिपद्यते
Verse 20
कच्चिन्न विगतस्नेहः प्रवासान्मयि राघवः कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर
Verse 21
सुखानामुचितो नित्यमसुखानामनौचितः दुःखमुत्तरमासाद्य कच्चिद्रामो  सीदति
Verse 22
कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव  अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य 
Verse 23
मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति
Verse 24
कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते
Verse 25
वानराधिपतिश्शीमान्सुग्रीवः कच्चिदेष्यति मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः
Verse 26
कच्चिच्छ लक्ष्मणश्शूरस्सुमित्रानन्दवर्धनः अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति
Verse 27
रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम्
Verse 28
कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन
Verse 29
धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम् नासीद्व्यथा यस्य  भीर्न शोकः कच्चित्स धैर्यं हृदये करोति
Verse 30
 चास्य माता  पिता  नान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा तावत्त्वहं दूत जिजीविषेयं यावत्प्रवृत्तिं शृणुयां प्रियस्य
Verse 31
इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा
Verse 32
सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्
Verse 33
 त्वामिहस्थां जानीते रामः कमललोचने तेन त्वां नानयत्याशु शचीमिव पुरन्दरः
Verse 34
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः चमूं प्रकर्षन्महतीं हर्यृक्षगणसङ्कुलाम्
Verse 35
विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम् करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम्
Verse 36
तत्र यद्यन्तरा मृत्युर्यदि देवास्सहासुराः स्थास्यन्ति पथि रामस्य  तानपि वधिष्यति
Verse 37
तवादर्शनजेनार्ये शोकेन  परिप्लुतः  शर्म लभते रामस्सिंहार्दित इव द्विपः
Verse 38
मलयेन  विन्ध्येन मेरुणा मन्दरेण  दर्दुरेण  ते देवि शपे मूलफलेन  यथा सुनयनं वल्गु बिम्बोष्ठं चारु कुण्डलम् मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम्
Verse 39
मलयेन  विन्ध्येन मेरुणा मन्दरेण  दर्दुरेण  ते देवि शपे मूलफलेन  यथा सुनयनं वल्गु बिम्बोष्ठं चारु कुण्डलम् मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम्
Verse 40
क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ शतक्रतुमिवासीनं नागराजस्य मूर्धनि
Verse 41
 मांसं राघवो भुङक्ते  चाऽपि मधु सेवते वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम्
Verse 42
नैव दंशान्न मशकान्न कीटान्न सरीसृपान् राघवोऽपनयेद्गात्रात्त्वद्गतेनान्तरात्मना
Verse 43
नित्यं ध्यानपरो रामो नित्यं शोकपरायणः नान्यच्चिन्तयते किञ्चित्स तु कामवशं गतः
Verse 44
अनिद्रस्सततं रामस्सुप्तोऽपि  नरोत्तमः सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते
Verse 45
दृष्ट्वा फलं वा पुष्पं वा यद्वाऽन्यत्सुमनोहरम् बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते
Verse 46
 देवि नित्यं परितप्यमान स्त्वामेव सीतेत्यभिभाषमाणः धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः
Verse 47
सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव
0:000:00
Speed: