Book 5 • Chapter 37
Sarga 37
65 verses
Verse 1
सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना हनूमन्तमुवाचेदं धर्मार्थसहितं वचः
Verse 2
अमृतं विषसंसृष्टं त्वया वानर भाषितम् यच्च नान्यमना रामो यच्च शोकपरायणः
Verse 3
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति
Verse 4
विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम सौमित्रिं मां च रामं च व्यसनै: पश्य मोहितान्
Verse 5
शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति प्लवमानः परिश्रान्तो हतनौ स्सागरे यथा
Verse 6
राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः
Verse 7
स वाच्यस्संत्वरस्वेति यावदेव न पूर्यते अयं संवत्सरः कालस्तावद्धि मम जीवितम्
Verse 8
वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम रावणेन नृशंसेन समयो यः कृतो मम
Verse 9
विभीषणेन च भ्रात्रा मम निर्यातनं प्रति अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम्
Verse 10
मम प्रतिप्रदानं हि रावणस्य न रोचते रावणं मार्गते संख्ये मृत्युः कालवशं गतम्
Verse 11
ज्येष्ठा कन्या नला नाम विभीषणसुता कपे तया ममेदमाख्यातं मात्रा प्रहितया स्वयम्
Verse 12
असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः अन्तरात्मा च मे शुद्धस्तस्मिंश्च बहवो गुणाः
Verse 13
उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता विक्रमश्च प्रभावश्च सन्ति वानर राघवे
Verse 14
चतुर्दशसहस्राणि राक्षसानां जघान यः जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत्
Verse 15
न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः अहं तस्य प्रभावज्ञा शक्रस्येव पुलोमजा
Verse 16
शरजालांशुमान्शूरः कपे रामदिवाकरः शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति
Verse 17
इति सञ्जल्पमानां तां रामार्थे शोककर्शिताम् आश्रुसम्पूर्णनयनामुवाच वचनं कपिः
Verse 18
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः चमूं प्रकर्षन्महतीं हर्यृक्षगणसङ्कुलाम्
Verse 19
अथवा मोचयिष्यामि त्वामद्यैव वरानने अस्माद्धुःखादुपारोह मम पृष्ठमनिन्दिते
Verse 20
त्वां हि पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम्
Verse 21
अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः
Verse 22
द्रक्ष्यस्यद्वैव वैदेहि राघवं सहलक्ष्मणम् व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा
Verse 23
त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् पुरन्दरमिवासीनं नागराजस्य मूर्धनि
Verse 24
पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी
Verse 25
कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवौ
Verse 26
न हि मे सम्प्रयातस्य त्वामितो नयतोऽङ्गने अनुगन्तुं गतिं शक्तास्सर्वे लङ्कानिवासिनः
Verse 27
यथैवाहमिह प्राप्तस्तथैवाहमसंशयः यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम्
Verse 28
मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम् हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत्
Verse 29
हनुमन्दूरमध्वानं कथं मां वोढुमिच्छसि तदेव खलु ते मन्ये कपित्वं हरियूथप
Verse 30
कथं वाल्पशरीरस्त्वं मामितो नेतुमिच्छसि सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ
Verse 31
सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम्
Verse 32
न मे जानाति सत्त्वं वा प्रभावं वाऽसितेक्षणा तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः
Verse 33
इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः दर्शयामास वैदेह्यास्स्वरूपमरिमर्दनः
Verse 34
स तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभः ततो वर्धितुमारेभे सीताप्रत्ययकारणात्
Verse 35
मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः अग्रतो व्यवतस्थे च सीताया वानरोत्तमः
Verse 36
हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत्
Verse 37
सपर्वतवनोद्देशां साट्टप्राकारतोरणाम् लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे
Verse 38
तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम्
Verse 39
तं दृष्ट्वा भीमसङ्काशमुवाच जनकात्मजा पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम्
Verse 40
तव सत्त्वं बलं चैव विजानामि महाकपे वायोरिव गतिं चैव तेजश्चाग्नेरिवाद्भुतम्
Verse 41
प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति उदधेरप्रमेयस्य पारं वानरपुङ्गव
Verse 42
जानामि गमने शक्तिं नयने चापि ते मम अवश्यं सम्प्रधार्याशु कार्यसिद्धिर्महात्मनः
Verse 43
अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वयाऽनघ वायुवेगसवेगस्य वेगो मां मोहयेत्तव
Verse 44
अहमाकाशमापन्ना ह्युपर्युपरि सागरम् प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेव गच्छतः
Verse 45
पतिता सागरे चाहं तिमिनक्रझषाकुले भवेयमाशु विवशा यादसामन्नमुत्तमम्
Verse 46
न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः
Verse 47
ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः अनुगच्छेयुरादिष्टा रावणेन दुरात्मना
Verse 48
तैस्त्वं परिवृतश्शूरैश्शूलमुद्गरपाणिभिः भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान्
Verse 49
सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम्
Verse 50
युध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः प्रपतेयं हि ते पृष्ठाद्भयार्ता कपिसत्तम
Verse 51
अथ रक्षांसि भीमानि महान्ति बलवन्ति च कथञ्चित्सांपराये त्वां जयेयुः कपिसत्तम
Verse 52
अथवा युध्यमानस्य पतेयं विमुखस्य ते पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः
Verse 53
मां वा हरेयुस्त्वद्धस्ताद्विशसेयुरथापि वा अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ
Verse 54
अहं वापि विपद्येयं रक्षोभिरभितर्जिता त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु
Verse 55
कामं त्वमसि पर्याप्तो निहन्तुं सर्वराक्षसान् राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः
Verse 56
अथवाऽदाय रक्षांसि न्यसेयुस्सम्वृते हि माम् यत्र ते नाभिजानीयुर्हरयो नापि राघवौ
Verse 57
आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः त्वया हि सह रामस्य महानागमने गुणः
Verse 58
मयि जीवितमायत्तं राघवस्य महात्मनः भ्रात्रूणां च महाबाहो तव राजकुलस्य च
Verse 59
तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसङ्ग्रहम्
Verse 60
भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर न स्पृशामि शरीरं तु पुंसो वानरपुङ्गव
Verse 61
यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता अनीशा किं करिष्यामि विनाथा विवशा सती
Verse 62
यदि रामो दशग्रीवमिह हत्त्वा सबान्धवम् मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत्
Verse 63
श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे
Verse 64
समीक्ष्य तं संयति चित्रकार्मुकम् महाबलं वासवतुल्यविक्रमम् सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम्
Verse 65
सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम्
0:000:00
Speed: