🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 38

Sarga 38

73 verses

Verse 1
ततस्स कपिशार्दूलस्तेन वाक्येन तोषितः सीतामुवाच तच्छृत्वा वाक्यं वाक्यविशारदः
Verse 2
युक्तरूपं त्वया देवि भाषितं शुभदर्शने सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य 
Verse 3
स्त्रीत्वं  तु समर्थं हि सागरं व्यतिवर्तितुम् मामधिष्ठाय विस्तीर्णं शतयोजनमायतम्
Verse 4
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते रामादन्यस्य नार्हामि संस्पर्शमिति जानकि एतत्ते सदृशं देवि पत्न्यास्तस्य महात्मनः का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम्
Verse 5
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते रामादन्यस्य नार्हामि संस्पर्शमिति जानकि एतत्ते सदृशं देवि पत्न्यास्तस्य महात्मनः का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम्
Verse 6
श्रोष्यते चैव काकुत्स्थ: सर्वं निरवशेषतः चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः
Verse 7
कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम्
Verse 8
लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः सामर्थ्यादात्मनश्चैव मयैतत्समुदीरितम्
Verse 9
इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना गुरुस्नेहेन भक्त्या  नान्यथैतदुदाहृतम्
Verse 10
यदि नोत्सहसे यातुं मया सार्थमनिन्दिते अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत्
Verse 11
एवमुक्ता हनुमता सीता सुरसुतोपमा उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्
Verse 12
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा तापसाश्रमवासिन्याः प्राज्यमूलफलोदके तस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या विदूरतः तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु विहृत्य सलिले क्लिन्ना ममाङ्के समुपाविशमः
Verse 13
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा तापसाश्रमवासिन्याः प्राज्यमूलफलोदके तस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या विदूरतः तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु विहृत्य सलिले क्लिन्ना ममाङ्के समुपाविशमः
Verse 14
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा तापसाश्रमवासिन्याः प्राज्यमूलफलोदके तस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या विदूरतः तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु विहृत्य सलिले क्लिन्ना ममाङ्के समुपाविशमः
Verse 15
ततो मांससमायुक्तो वायसः पर्यतुण्डयत् तमहं लोष्टमुद्यम्य वारयामिस्म वायसम्
Verse 16
दारयन्स  मां काकस्तत्त्रैव परिलीयते  चाप्युपारमन्मांसाद्भक्षार्थि बलिभोजनः
Verse 17
उत्कर्षन्त्यां  रशनां क्रुद्धायां मयि पक्षिणि स्रस्यमाने  वसने ततो दृष्टा त्वया ह्यहम्
Verse 18
त्वयाऽपहसिता चाहं क्रुद्धा संलज्जिता तदा भक्षगृध्नेन काकेन दारिता त्वामुपागता
Verse 19
आसीनस्य  ते श्रान्ता पुनरुत्सङ्गमाविशम् क्रुध्यन्ती  प्रहृष्टेन त्वयाऽहं परिसान्त्विता
Verse 20
बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती लक्षिताऽहं त्वया नाथ वायसेन प्रकोपिता
Verse 21
परिश्रमात्प्रसुप्ता  राघवाङ्केऽप्यहं चिरम् पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः
Verse 22
 तत्र पुनरेवाथ वायसस्समुपागमत् ततस्सुप्तप्रबुद्धां मां रामस्याङ्कात्समुत्थिताम् वायसस्सहसागम्य विददार स्तनान्तरे पुनः पुनरथोत्पत्य विददार  मां भृशम्
Verse 23
 तत्र पुनरेवाथ वायसस्समुपागमत् ततस्सुप्तप्रबुद्धां मां रामस्याङ्कात्समुत्थिताम् वायसस्सहसागम्य विददार स्तनान्तरे पुनः पुनरथोत्पत्य विददार  मां भृशम्
Verse 24
ततस्समुक्षितो रामो मुक्तैश्शोणितबिन्दुभिः वायसेन ततस्तेन बलवत्क्लिश्यमानया  मया बोधितश्श्रीमान्सुखसुप्तः परन्तपः
Verse 25
 मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा आशीविष इव क्रुद्धश्वसन्वाक्यमभाषत
Verse 26
केन ते नागनासोरु विक्षतं वै स्तनान्तरम् कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना
Verse 27
वीक्षमाणस्ततस्तं वै वायसं समुदैक्षत नखैस्सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम्
Verse 28
पुत्त्रः किल  शक्रस्य वायसः पततां वरः धरान्तरगतश्शीघ्रं पवनस्य गतौ समः
Verse 29
ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः वायसे कृतवान्क्रूरां मतिं मतिमतां वरः
Verse 30
 दर्भं संस्तराद्गृह्य ब्राह्मेणास्त्रेण योजयत्  दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम्
Verse 31
 तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ततस्तं वायसं दर्भस्सोम्बरेऽनुजगाम 
Verse 32
अनुसृष्टस्तदा काको जगाम विविधां गतिम् लोककाम इमं लोकं सर्वं वै विचचार 
Verse 33
 पित्रा  परित्यक्तस्सुरैश्च समहर्षिभिः त्रीन्लोकान्सम्परिक्रम्य तमेव शरणं गतः
Verse 34
 तं निपतितं भूमौ शरण्यश्शरणागतम् वधार्हमपि काकुत्स्थ: कृपया पर्यपालयत्
Verse 35
परिद्यूनं विषण्णं   तमायान्तमब्रवीत् मोघं कर्तुं  शक्यं तु ब्राह्ममस्त्रं तदुच्यताम्
Verse 36
हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोऽब्रवीत् ततस्तस्याक्षि काकस्य हिनस्ति स्म  दक्षिणम् दत्त्वा  दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः
Verse 37
हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोऽब्रवीत् ततस्तस्याक्षि काकस्य हिनस्ति स्म  दक्षिणम् दत्त्वा  दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः
Verse 38
 रामाय नमस्कृत्य राज्ञे दशरथाय  विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम्
Verse 39
मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् कस्माद्यो मां हरेत्त्वत्तः क्षमसे तं महीपते
Verse 40
 कुरुष्व महोत्साहः कृपां मयि नरर्षभ त्वया नाथवती नाथ ह्यनाथा इव दृश्यते
Verse 41
आनृशंस्यं परो धर्मस्तवत्त्त ऐव मया श्रुतः जानामि त्वां महावीर्यं महोत्साहं महाबलम् अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् भर्तारं ससमुद्राया धरण्या वासवोपमम्
Verse 42
आनृशंस्यं परो धर्मस्तवत्त्त ऐव मया श्रुतः जानामि त्वां महावीर्यं महोत्साहं महाबलम् अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् भर्तारं ससमुद्राया धरण्या वासवोपमम्
Verse 43
एवमस्त्रविदां श्रेष्ठस्सत्यवान्बलवानपि किमर्थमस्त्रं रक्षस्सु  योजयसि राघव
Verse 44
 नागा नाऽपि गन्धर्वा नासुरा  मरुद्गणाः रामस्य समरे वेगं शक्ताः प्रतिसमाधितुं
Verse 45
तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः किमर्थं  शरैस्तीक्ष्णै: क्षयं नयति राक्षसान्
Verse 46
भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः कस्य हेतोर्न मां वीरः परित्राति महाबलः
Verse 47
यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः
Verse 48
ममैव दुष्कृतं किञ्चिन्महदस्ति  संशयः समर्थावपि तौ यन्मां नावेक्षेते परन्तपौ
Verse 49
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः
Verse 50
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे रामे दुःखाभिपन्ने  लक्ष्मणः परितप्यते
Verse 51
कथञ्चिद्भवती दृष्टा  कालः परिदेवितुम् इमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते
Verse 52
तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः
Verse 53
हत्त्वा  समरे क्रूरं रावणं सहबान्धवम् राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति
Verse 54
ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः सुग्रीवो वापि तेजस्वी हरयोऽपि समागताः
Verse 55
इत्युक्तवति तस्मिंस्तु सीता सुरसुतोपमा उवाच शोकसन्तप्ता हनुमन्तं प्लवङ्गमम्
Verse 56
कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय
Verse 57
स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः ऐश्वर्यं  विशालायां पृथिव्यामपि दुर्लभम् पितरं मातरं चैव सम्मान्याभिप्रसाद्य  अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः
Verse 58
स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः ऐश्वर्यं  विशालायां पृथिव्यामपि दुर्लभम् पितरं मातरं चैव सम्मान्याभिप्रसाद्य  अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः
Verse 59
आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने
Verse 60
सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शिनः पितृवद्वर्तते रामे मातृवन्मां समाचरन्
Verse 61
ह्रियमाणां तदा वीरो  तु मां वेद लक्ष्मणः वृद्धोपसेवी लक्ष्मीवान् शक्तो  बहुभाषिता राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे
Verse 62
ममः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान्
Verse 63
यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत्  ममार्थाय कुशलं वक्तव्यो वचनान्मम
Verse 64
मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तमः
Verse 65
मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तमः
Verse 66
राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः
Verse 67
जीवितं धारयिष्यामि मासं दशरथात्मज ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते
Verse 68
रावणेनोपरुद्धां मां निकृत्य पापकर्मणा त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम्
Verse 69
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् प्रदेयो राघवायेति सीता हनुमते ददौ
Verse 70
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् अङ्गुल्या योजयामास  ह्यस्य प्राभवद्भुजः
Verse 71
मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य  सीतां प्रदक्षिणं कृत्वा प्रणतः पार्व्शतः स्थितः
Verse 72
हर्षेण महता युक्तः सीतादर्शनजेन सः हृदयेन गतो रामं शरीरेण तु विष्ठितः
Verse 73
मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् गिरिरिव पवनावधूतमुक्तः सुखितमनाः प्रतिसङ्क्रमं प्रपेदे
0:000:00
Speed: