🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 39

Sarga 39

54 verses

Verse 1
मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत् अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः
Verse 2
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति वीरो जनन्या मम  राज्ञो दशरथस्य 
Verse 3
 भूयस्त्वं समुत्साहे चोदितो हरिसत्तम अस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम्
Verse 4
त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम हनुमन्यत्नमास्थाय दुःखक्षयकरो भव तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत्
Verse 5
 तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः शिरसा वन्ध्य वैदेहीं गमनायोपचक्रमे
Verse 6
ज्ञात्वा सम्प्रस्थितं देवी वानरं मारुतात्मजम् बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत्
Verse 7
कुशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ सुग्रीवं  सहामात्यं वृद्धान् सर्वांश्च वानरान् ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम्
Verse 8
कुशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ सुग्रीवं  सहामात्यं वृद्धान् सर्वांश्च वानरान् ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम्
Verse 9
यथा   महाबाहुर्मां तारयति राघवः अस्माद्धुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि
Verse 10
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् तत्तथा हनुमन्वाच्यं वाचा धर्ममवाप्नुहि
Verse 11
नित्यमुत्साहयुक्ताश्च वाचश्रुत्वा त्वयेरिताः वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये
Verse 12
मत्सन्देशयुता वाचस्त्वत्तश्श्रुत्वा  राघवः पराक्रमविधिं वीरो विधिवत्संविधास्यति
Verse 13
सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्
Verse 14
क्षिप्रमेष्यति काकुत्स्थो हार्यृक्षप्रवरैर्वृतः यस्ते युधि विजित्यारीन्शोकं व्यपनयिष्यति
Verse 15
 हि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा यस्तस्य क्षिपतो बाणान्स्थातुमुत्सहतेऽग्रतः
Verse 16
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्  हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः
Verse 17
 हि सागरपर्यन्तां महीं शासितुमीहति त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि
Verse 18
तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम् जानकी बहुमेनेऽथ वचनं चेदमब्रवीत्
Verse 19
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत्
Verse 20
यदि वा मन्यसे वीर वसैकाहमरिन्दम कस्मिंश्चित्संवृते देशे विश्रान्तःश्वो गमिष्यसि
Verse 21
मम चेदल्पभाग्याया सान्निध्यात्तव वानर अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्
Verse 22
गते हि हरिशार्दूल पुनरागमनाय तु प्राणानामपि सन्देहो मम स्यान्नात्र संशयः
Verse 23
तवादर्शनजः शोको भूयो मां परितापयेत् दुःखाद्धुःखपरामृष्टां दीपयन्निव वानर
Verse 24
अयं  वीर सन्देहस्तिष्ठतीव ममाग्रतः सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वरः
Verse 25
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
Verse 26
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने शक्तिस्स्याद्वैनतेयस्य तव वा मारुतस्य वा
Verse 27
तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे किं पश्यसि समाधानं त्वं हि कार्यविदां वरः
Verse 28
काममस्य त्वमेवैकः कार्यस्य परिसाधने पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः
Verse 29
बलैस्समग्रैर्यदि मां रावणं जित्य संयुगे विजयी स्वपुरं यायात्तत्तस्य सदृशं भवेत्
Verse 30
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः मां नयेद्यदि काकुत्स्थः तत्तस्य सदृशं भवेत्
Verse 31
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः भवेदाहवशूरस्य तथा त्वमुपपादय
Verse 32
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् निशम्य हनुमान्शेषं वाक्यमुत्तरमब्रवीत्
Verse 33
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः सुग्रीवस्सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः
Verse 34
 वानरसहस्राणां कोटीभिरभिसंवृतः क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः
Verse 35
तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः
Verse 36
येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः   कर्मसु सीदन्ति महत्स्वमिततेजसः
Verse 37
असकृत्तैर्महोत्साहैस्ससागरधराधरा प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः
Verse 38
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ
Verse 39
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः  हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः
Verse 40
तदलं परितापेन देवि शोको व्यपैतु ते एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः
Verse 41
मम पृष्ठगतौ तौ  चन्द्रसूर्याविवोदितौ त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः
Verse 42
ततो वीरौ नरवरौ सहितौ रामलक्ष्मणौ आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः
Verse 43
सगणं रावणं हत्त्वा राघवो रघुनन्दनः त्वामादाय वरारोहे स्वपुरीं प्रतियास्यति
Verse 44
तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी नचिराद्द्रक्ष्यसे रामं प्रज्वलन्तमिवानलम्
Verse 45
निहते राक्षसेन्द्रेऽस्मिन्सपुत्रामात्यबान्धवे त्वं समेष्वसि रामेण शशाङ्केनेव रोहिणी
Verse 46
क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात्
Verse 47
एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत्
Verse 48
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् लक्ष्मणं  धनुष्पाणिं लङ्काद्वारमुपागतम्
Verse 49
नखदंष्ट्रायुधान्वीरान्सिम्हशार्दूलविक्रमान् वानरान्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि सङ्गतान्
Verse 50
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु नर्दतां कपिमुख्यानामार्ये यूधान्यनेकशः
Verse 51
 तु मर्मणि घोरेण ताडितो मन्मथेषुणा  शर्म लभते रामस्सिंहार्धित इव द्विपः
Verse 52
मा रुदो देवि शोकेन माभूत्ते मनसोऽप्रियम् शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि
Verse 53
रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ
Verse 54
नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेऽतिरौद्रे  ते चिरादामगमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम्
0:000:00
Speed: