Book 5 • Chapter 40
Sarga 40
25 verses
Verse 1
श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः उवाचात्महितं वाक्यं सीता सुरसुतोपमा
Verse 2
त्वां दृष्ट्वा प्रियवक्तारं सम्प्रहृष्यामि वानरः अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा
Verse 3
यथा तं पुरुषव्याघ्रं गात्रैश्शोकाभिकर्शितैः संस्पृशेयं सकामाहं तथा कुरु दयां मयि
Verse 4
अभिज्ञानं च रामस्य दद्या हरिगणोत्तम क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम्
Verse 5
मनश्शिलायास्तिलको गण्डपार्श्वे निवेशितः त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि
Verse 6
स वीर्यवान्कथं सीतां हृतां समनुमन्यसे वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः
Verse 7
एष चूडामणिर्दिव्यो मया सुपरिरक्षितः एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ
Verse 8
एष निर्यातितश्श्रीमान्मया ते वारिसम्भवः अतः परं न शक्ष्यामि जीवितुं शोकलालसा
Verse 9
असह्यानि च दुःखानि वाचश्च हृदयच्छिदः राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम्
Verse 10
धारयिष्यामि मासं तु जीवितं शत्रुसूदन ऊर्ध्वं मासान्न जीविष्ये त्वया हीना नृपात्मज
Verse 11
घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि त्वां च श्रुत्वा विपद्यन्तं न जीवेयमहं क्षणम्
Verse 12
वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः
Verse 13
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते
Verse 14
कथञ्चिद्भवती दृष्टा न कालः परिशोचितुम् इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि
Verse 15
तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिन्दमौ त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः
Verse 16
हत्त्वा च समरे क्रूरं रावणं सहबान्धवम् राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः
Verse 17
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि
Verse 18
साब्रवीद्दत्तमेवेति मयाभिज्ञानमुत्तमम् एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति
Verse 19
स तं मणिवरं गृह्य श्रीमान्प्लवगसत्तमः प्रणम्य शिरसा देवीं गमनायोपचक्रमे
Verse 20
तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम् वर्धमानं महावेगमुवाच जनकात्मजा अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा
Verse 21
तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम् वर्धमानं महावेगमुवाच जनकात्मजा अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा
Verse 22
हनुमन्सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ सुग्रीवं च सहामात्यं सर्वान् ब्रूयाह्यनामयम्
Verse 23
यथा च स महाबाहुर्मां तारयति राघवः अस्माद्दु:खाम्बुसम्रोधात्त्वं समाधातुमर्हसि
Verse 24
इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ब्रूयास्तु रामस्य गतस्समीपम् शिवश्च तेऽध्वाऽस्तु हरिप्रवीर
Verse 25
स राजपुत्र्य्राप्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम
0:000:00
Speed: