Book 5 • Chapter 3
Sarga 3
51 verses
Verse 1
स लम्बशिखरे लम्बे लम्बतोयदसन्निभे सत्त्वमास्थाय मेधावी हनुमान् मारुतात्मजः निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः रम्यकाननतोयाढ्यां पुरीं रावणपालिताम्
Verse 2

Verse 3
शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् सागरोपमनिर्घोषां सागरानिलसेविताम् सुपुष्टबलसम्पुष्टां यथैव विटपावतीम् चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् भुजगाचरितां गुप्तां शुभां भोगवतीमिव तां स विद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम् शातकुम्भेन महता प्राकारेणाभिसंवृताम् किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान्
Verse 4

Verse 5

Verse 6

Verse 7

Verse 8
विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः जाम्बूनदमयैर्द्वारैर्वैडूर्यकृतवेदिकैः वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः वैढूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः क्रौञ्चबर्हिणसङ्घुष्टैः राजहंस निषेवितैः तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् वस्वौकसाराप्रतिमां तां वीक्ष्य नगरीं ततः खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः
Verse 9

Verse 10

Verse 11

Verse 12

Verse 13
तां समीक्ष्य पुरीं रम्यां राक्षसाधिपतेः शुभाम् अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान्
Verse 14
नेयमन्येन नगरी शक्या धर्षयितुं बलात् रक्षिता रावणबलैरुद्यतायुधधारिभिः
Verse 15
कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि
Verse 16
विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत्
Verse 17
समीक्ष्य तु महाबाहू राघवस्य पराक्रमम् लक्ष्मणस्य च विक्रान्तमभवत् प्रीतिमान् कपिः
Verse 18
तां रत्नवसनोपेतां कोष्ठागारावतंसकाम् यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् तां नष्टतिमिरां दीप्तैर्भास्वरैश्च महागृहैः नगरीं राक्षसेन्द्रस्य स ददर्श महाकपिः
Verse 19

Verse 20
थ सा हरिशार्दूलं प्रविशन्तं महाबलम् नगरी स्वेन रूपेण ददर्श पवनात्मजम्
Verse 21
सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता स्वयमेवोत्थिता तत्र विकृताननदर्शना
Verse 22
पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत मुञ्चमाना महानादमब्रवीत्पवनात्मजम्
Verse 23
कस्त्वं केन च कार्येण इह प्राप्तो वनालय कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते
Verse 24
न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया रक्षिता रावणबलैरभिगुप्ता समन्ततः
Verse 25
अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि
Verse 26
का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसि किमर्थं चापि मां रुद्ध्वा निर्भर्त्सयसि दारुणा
Verse 27
हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी उवाच वचनं क्रुद्धा परुषं पवनात्मजम्
Verse 28
अहं राक्षसराजस्य रावणस्य महात्मनः आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम्
Verse 29
न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया
Verse 30
अहं हि नगरी लङ्का स्वयमेव प्लवङ्गम सर्वतः परिरक्षामि ह्येतत्ते कथितं मया
Verse 31
लङ्काया वचनं श्रुत्वा हनुमान् मारुतात्मजः यत्नवान्स हरिश्रेष्ठः स्थितश्शैल इवापरः
Verse 32
स तां स्त्रीरूपविकृतां दृष्टवा वानरपुङ्गवः आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः
Verse 33
द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम् निर्विशङ्कमिमंलोकं पश्यन्त्यास्तवसांप्रतम् इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे
Verse 34
वनान्युपवनानीह लङ्कायाः काननानि च सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे
Verse 35
तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम्
Verse 36
मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालितां न शक्यमद्य ते द्रष्टुं पुरीयं वानराधम
Verse 37
ततः स कपिशार्दूलस्तामुवाच निशाचरीम् दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम्
Verse 38
ततः कृत्वा महानादं सा वै लङ्का भयावहम् तलेन वानरश्रेष्ठं ताडयामास वेगिता
Verse 39
ततः स कपिशार्दूलो लङ्कया ताडितो भृशम् ननाद सुमहानादं वीर्यवान् पवनात्मजः
Verse 40
ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः मुष्टिनाऽऽभिजघानैनां हनुमान् क्रोधमूर्छितः स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः
Verse 41
सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी पपात सहसा भूमौ विकृताननदर्शना
Verse 42
ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम् कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम्
Verse 43
ततो वै भृशसंविग्ना लङ्का सा गद्गदाक्षरम् उवाचागर्वितं वाक्यं हनूमन्तं प्लवङ्गमम्
Verse 44
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः
Verse 45
अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम निर्जिताहं त्वया वीर विक्रमेण महाबल
Verse 46
इदं तु तथ्यं शृणु वै ब्रुवन्त्या मे हरीश्वर स्वयंभुवा पुरा दत्तं वरदानं यथा मम
Verse 47
यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत् तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्
Verse 48
स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात् स्वयंभू विहितः सत्यो न तस्यास्ति व्यतिक्रमः
Verse 49
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः रक्षसां चैव सर्वेषां विनाशः समुपागतः
Verse 50
तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि
Verse 51
प्रविश्य शापोपहतां हरीश्वर शुभां पुरीं राक्षसमुख्यपालिताम् यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम्
0:000:00
Speed: