Book 5 • Chapter 4
Sarga 4
29 verses
Verse 1
स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम् विक्रमेण महातेजा हनुमान् कपिसत्तमः अद्वारेण च महाबाहुः प्राकारमभिपुप्लुवे
Verse 2
प्रविश्य नगरीं लङ्कां कपिराजहितंकरः चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि
Verse 3
प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः स महापथमास्थाय मुक्तापुष्पविराजितम् ततस्तु तां पुरीं लङ्कां रम्यामभिययौ कपिः
Verse 4

Verse 5
हसितोत्कृष्टनिनदैस्तूर्यघोषपुरस्सरैः वज्रांकुशनिकाशैश्च वज्रजालविभूषितैः गृहमेघैः पुरी रम्या बभासे द्यौरिवाम्बुदैः
Verse 6
प्रजज्वाल ततो लङ्का रक्षोगणगृहैः शुभैः सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः वर्धमानगृहैश्चापि सर्वतः सुविभूषिता
Verse 7

Verse 8
तां चित्रमाल्याभरणां कपिराजहितङ्करः राघवार्थं चरन् श्रीमान् ददर्श च ननन्द च
Verse 9
भवनाद्भवनं गच्छन् ददर्श पवनात्मजः विविधाकृतिरूपाणि भवनानि ततस्ततः
Verse 10
शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव
Verse 11
शुश्राव काञ्चीनिनदं नूपुराणां च, निःस्वनम् सोपाननिनदांश्चैव भवनेषु महात्मनाम् अस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः
Verse 12
शुश्राव जपतां तत्र मन्त्रान् रक्षोगृहेषु वै स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि
Verse 13

Verse 14
राजमार्गं समावृत्य स्थितं रक्षोबलं महत् ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून्
Verse 15
दीक्षितान् जटिलान् मुण्डान् गोजिनाम्बरवाससः दर्भमुष्टिप्रहरणानग्निकुण्डायुघांस्तथा कूटमुद्गरपाणींश्च दण्डायुधधरानपि एकाक्षानेककर्णांश्च लम्बोदरपयोधरान् करालान् भुग्नवक्त्रांश्च विकटान् वामनांस्तथा धन्विनः खङ्गिनश्चैव शतघ्नीमुसलायुधान् परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् नातिस्थूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् नातिगौरान्नातिकृष्णान्नातिकुब्जान्न वामनान् विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः 5.4.19 ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान्
Verse 16

Verse 17

Verse 18

Verse 19

Verse 20
शक्तिवृक्षायुधांश्चैव पट्टिसाशनिधारिणः क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् नानावेषसमायुक्तान् यथास्स्वैरगतान् बहून् तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान्
Verse 21

Verse 22

Verse 23
शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः रक्षोधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः
Verse 24
स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम् राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् पुण्डरीकावतंसाभिः परिखाभिरलङ्कृतम् प्राकारावृतमत्यन्तं ददर्श स महाकपिः
Verse 25

Verse 26
त्रिविष्टपनिभं दिव्यं दिव्यनादनिनादितम् वाजिहेषितसङ्घुष्टं नादितं भूषणैस्तथा रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः वारणैश्च चतुर्थन्तैः श्वेताभ्रनिचयोपमैः भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः रक्षितं सुमहावीर्यैर्यातुधानैः सहस्रशः राक्षसाधिपतेर्गुप्तमाविवेश महाकपिः
Verse 27

Verse 28

Verse 29
सहेमजाम्बूनदचक्रवालं महार्हमुक्तामणिभूषितान्तम् परार्थ्यकालागुरुचन्दनाक्तं स रावणान्तःपुरमाविवेश
0:000:00
Speed: