🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 5

Sarga 5

27 verses

Verse 1
ततः  मध्यंगतमंशुमन्तं ज्योत्स्नावितानं महदुद्वमन्तम् ददर्श धीमान् दिवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम्
Verse 2
लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम् भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम्
Verse 3
या भाति लक्ष्मीर्भुवि मन्दरस्था तथा प्रदोषेषु  सागरस्था तथैव तोयेषु  पुष्करस्था रराज सा चारुनिशाकरस्था
Verse 4
हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः वीरो यथा गर्वितकुञ्जरस्थ चन्द्रोऽपि बभ्राज तथाम्बरस्थः
Verse 5
स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलः श्वेत इवोच्चशृङ्गः हस्तीव जाम्बूनदबद्धशृङ्गो रराज चन्द्रः परिपूर्णशृङ्गः
Verse 6
विनष्टशीताम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः प्रकाशलक्ष्म्याश्रयनिर्मलाङ्क: रराज चन्द्रो भगवान् शशाङ्कः
Verse 7
शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः राज्यं समासाद्य यथा नरेन्द्र स्तथाप्रकाशो विरराज चन्द्रः
Verse 8
प्रकाशचन्द्रोदयनष्टदोषः प्रवृत्तरक्षः पिशिताशदोषः रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः
Verse 9
तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सुवृत्ताः नक्तंचराश्चापि तथा प्रवृत्ता: विहर्तुमत्यद्भुतरौद्रवृत्ताः
Verse 10
मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसङ्कुलानि वीरश्रिया चापि समाकुलानि ददर्श धीमान्  कपिः कुलानि
Verse 11
परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिकं क्षिपन्ति मत्तप्रलापानधिकं क्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति
Verse 12
रक्षांसि वक्षांसि  विक्षिपन्ति गात्राणि कान्तासु  विक्षिपन्ति रूपाणि चित्राणि  विक्षिपन्ति दृढानि चापानि  विक्षिपन्ति
Verse 13
ददर्श कान्ताश्च समालभन्त्य स्तथा परास्तत्र पुनः स्वपन्त्यः सुरूपवक्त्राश्च तथा हसन्त्यः क्रुद्धाः पराश्चापि विनिःश्वसन्त्य
Verse 14
महागजैश्चापि तथा नदद्भि: सुपूजितैश्चापि तथा सुसद्भिः रराज वीरैश्च विनिःश्वसद्भिः ह्रदो भुजङ्गैरिव निःश्वसद्भिः
Verse 15
बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्धधानान् जगतः प्रधानान् नानाविधानान् रुचिराभिधानान् ददर्श तस्यां पुरि यातुधानान्
Verse 16
ननन्द दृष्ट्वा   तान् सुरूपान्नानागुणानात्मगुणानुरूपान् विद्योतमानान्स तदानुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान्
Verse 17
ततो वरार्हाः सुविशुद्धभावा स्तेषां स्त्रियस्तत्र महानुभावाः प्रियेषु पानेषु  सक्तभावा ददर्श तारा इव सुप्रभावाः
Verse 18
श्रिया ज्वलन्तीस्त्रपयोपगूढा निशीथकाले रमणोपगूढाः ददर्श काश्चित्प्रमदोपगूढा यथा विहङ्गाः कुसुमोपगूढाः
Verse 19
अन्याः पुनर्हर्म्यतलोपविष्टा स्तत्र प्रियाङ्केषु सुखोपविष्टाः भर्तुः प्रिया धर्मपरा निविष्टा ददर्श धीमान् मदनाभिविष्टाः
Verse 20
अप्रावृताः काञ्चनराजिवर्णाः काश्चित्परार्थ्यास्तपनीयवर्णाः पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः
Verse 21
ततः प्रियान् प्राप्य मनोभिरामाः सुप्रीतियुक्ताः प्रसमीक्ष्यरामाः गृहेषु हृष्टाः परमाभिरामाः हरिप्रवीरः  ददर्श रामाः
Verse 22
चन्द्रप्रकाशाश्च हि वक्त्रमालाः वक्राक्षिपक्ष्माश्च सुनेत्रमालाः विभूषणानां  ददर्श मालाः शतह्रदानामिव चारुमालाः
Verse 23
 त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम् लतां प्रपुल्लामिव साधु जातां ददर्श तन्वीं मनसाभिजाताम्
Verse 24
सनातने वर्त्मनि सन्निविष्टां रामेक्षणां तां मदनाभिविष्टाम् भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम्
Verse 25
उष्णार्दितां सानुसृतास्रकण्ठीम् पुरा वरार्होत्तमनिष्ककण्ठीम् सुजातपक्ष्मामभिरक्तकण्ठीं वनेऽप्रवृत्तामिव नीलकण्ठीम्
Verse 26
अव्यक्तरेखामिव चन्द्ररेखां पांसुप्रदिग्धामिव हेमरेखाम् क्षतप्ररूढामिव बाणरेखां वायुप्रभिन्नामिव मेघरेखाम्
Verse 27
सीतामपश्यन् मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य बभूव दुःखाभिहतश्चिरस्य प्लवङ्गमो मन्द इवाचिरस्य
0:000:00
Speed: