Book 5 • Chapter 44
Sarga 44
20 verses
Verse 1
सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः रक्तमाल्याम्बरधरस्स्रग्वी रुचिरकुण्डलः महान्विवृत्तनयनश्चण्डस्समरदुर्जयः धनुश्शक्रधनुः प्रख्यं महद्रुचिरसायकम् विष्फारयाणो वेगेन वज्राशनिसमस्वनम्
Verse 2

Verse 3

Verse 4
तस्य विष्फारघोषेण धनुषो महता दिशः प्रदिशश्च नभश्चैव सहसा समपूर्यत
Verse 5
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः हनुमान्वेगसम्पन्नो जहर्ष च ननाद च
Verse 6
तं तोरणविटङ्कस्थं हनुमन्तं महाकपिम् जम्बुमाली महाबाहुर्विव्याध निशितैश्शरैः
Verse 7
अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम्
Verse 8
तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना
Verse 9
तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः
Verse 10
चुकोप बाणाभिहतो राक्षसस्य महाकपिः ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम्
Verse 11
तरसा तां समुत्पाट्य चिक्षेप बलवद्भली तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः
Verse 12
विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चण्डविक्रमः सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान्
Verse 13
भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् चिक्षेप सुबहून्बाणान्जम्बुमाली महाबलः
Verse 14
सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे
Verse 15
स शरैः पूरिततनु: क्रोधेन महता वृतः तमेव परिघं गृह्य भ्रामयामास वेगितः
Verse 16
अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः परिघं पातयामास जम्बुमालेर्महोरसि
Verse 17
तस्य चैव शिरो नास्ति न बाहू न च जानुनी न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः
Verse 18
स हतस्सहसा तेन जम्बुमाली महाबलः पपात निहतो भूमौ चूर्णिताङ्गविभूषणः
Verse 19
जम्बुमालिं च निहतं किङ्करांश्च महाबलान् चुक्रोध रावणश्शुत्वा कोपसंरक्तलोचनः
Verse 20
स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्त्रे निहते महाबले अमात्यपुत्त्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः
0:000:00
Speed: