🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 43

Sarga 43

25 verses

Verse 1
ततस्स किङ्करान्हत्वा हनुमान्ध्यानमास्थितः वनं भग्नं मया चैत्यप्रासादो  विनाशितः तस्मात्प्रासादमप्येवं भीमं विध्वंसयाम्यहं इति सञ्चिन्त्य मनसा हनुमान्दर्शयन्बलम् चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् आरुरोह कपिश्रेष्ठो हनुमान्मारुतात्मजः
Verse 2

Verse 3

Verse 4
आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः बभौ  सुमहातेजाः प्रतिसूर्य इवोदितः
Verse 5
संप्रधृष्य  दुर्धर्षं चैत्यप्रासादमुत्तमम् हनुमान्प्रज्वलन्लक्ष्म्या पारियात्रोपमोऽभवत्
Verse 6
 भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्
Verse 7
तस्यास्फोटितशब्देन महता श्रोत्रघातिना पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः
Verse 8
अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः राजा जयति सुग्रीवो राघवेणाभिपालितः
Verse 9
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः हनुमान्शत्रुसैन्यानां निहन्ता मारुतात्मजः
Verse 10
 रावणसहस्रं मे युद्धे प्रतिबलं भवेत् शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः
Verse 11
अर्दयित्वा पुरीं लङ्कामभिवाद्य  मैथिलीम् समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्
Verse 12
एवमुक्त्वा विमानस्थश्चैत्यस्थान्हरियूथपः ननाद भीमनिर्ह्रादो रक्षसां जनयन्भयम्
Verse 13
तेन शब्देन महता चैत्यपालाश्शतं ययुः गृहीत्वा विविधानस्त्रान्प्रासान्खङ्गान्परश्वथान् विसृजन्तो महाकाया मारुतिं पर्यवारयन्
Verse 14
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः
Verse 15
आवर्त इव गङ्गायास्तोयस्य विपुलो महान् परिक्षिप्य हरिश्रेष्ठं  बभौ रक्षसां गणः
Verse 16
ततो वातात्मजः क्रुद्धो भीम रूपं समास्थितः प्रासादस्य महन्तस्य स्तम्बं हेमपरिष्कृतम् उत्पाटयित्वा वेगेन हनुमान्पवनात्मजः ततस्तं भ्रामयामास शतधारं महाबलः
Verse 17
ततो वातात्मजः क्रुद्धो भीम रूपं समास्थितः प्रासादस्य महन्तस्य स्तम्बं हेमपरिष्कृतम् उत्पाटयित्वा वेगेन हनुमान्पवनात्मजः ततस्तं भ्रामयामास शतधारं महाबलः
Verse 18
तत्र चाग्निस्समभवत्प्रासादश्चाप्यदह्यत दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः  राक्षसशतं हत्त्वा वज्रेणेन्द्र इवासुरान् अन्तरिक्षे स्थितश्श्तीमानिदं वचनमब्रवीत्
Verse 19
तत्र चाग्निस्समभवत्प्रासादश्चाप्यदह्यत दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः  राक्षसशतं हत्त्वा वज्रेणेन्द्र इवासुरान् अन्तरिक्षे स्थितश्श्तीमानिदं वचनमब्रवीत्
Verse 20
मादृशानां सहस्राणि विसृष्टानि महात्मनाम् बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् अटन्ति वसुधां कृत्स्नां वयमन्ये  वानराः
Verse 21
मादृशानां सहस्राणि विसृष्टानि महात्मनाम् बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् अटन्ति वसुधां कृत्स्नां वयमन्ये  वानराः
Verse 22
दशनागबलाः केचित्केचिद्दशगुणोत्तराः केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः
Verse 23
सन्ति चौघबलाः केचित्केचिद्वायुबलोपमाः अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः
Verse 24
ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः शतैश्शतसहस्रैश्च कोटीभिरयुतैरपि आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः
Verse 25
नेयमस्ति पुरी लङ्का  यूयं   रावणः 5.43.25 यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना
0:000:00
Speed: