Book 5 • Chapter 42
Sarga 42
43 verses
Verse 1
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च बभूवुस्त्राससम्भ्रान्तास्सर्वे लङ्कानिवासिनः
Verse 2
विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे
Verse 3
ततो गतायां निद्रायां राक्षस्यो विकृताननाः तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम्
Verse 4
स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः चकार सुमहद्रूपं राक्षसीनां भयावहम्
Verse 5
ततस्तं गिरिसङ्काशमतिकायं महाबलम् राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम्
Verse 6
कोऽयं कस्य कुतो वायं किं निमित्तमिहागतः कथं त्वया सहानेन संवादः कृत इत्युत
Verse 7
आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् संवादमसितापाङ्गे त्वया किं कृतवानयम्
Verse 8
अथाब्रवीन्महासाध्वी सीता सर्वाङ्गसुन्दरी रक्षसां भीमरूपाणां विज्ञाने मम का गतिः
Verse 9
यूयमेवाभिजानीत योऽयं यद्वा करिष्यति अहिरेव ह्यहेः पादान्विजानाति न संशयः
Verse 10
अहमप्यस्य भीतास्मि नैनं जानामि को न्वयं वेद्मि राक्षसमेवैनं कामरूपिणमागतम्
Verse 11
वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम्
Verse 12
रावणस्य समीपे तु राक्षस्यो विकृताननाः विरूपं वानरं भीममाख्यातुमुपचक्रमुः
Verse 13
अशोकवनिकामध्ये राजन्भीमवपुः कपिः सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः
Verse 14
न च तं जानकी सीता हरिं हरिणलोचना अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति
Verse 15
वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया
Verse 16
तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम्
Verse 17
न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः यत्र सा जानकी सीता स तेन न विनाशितः
Verse 18
जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते अथवा कश्श्रमस्तस्य सैव तेनाभिरक्षिता
Verse 19
चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता प्रवृद्धश्शिंशुपावृक्ष स्स च तेनाभिरक्षितः
Verse 20
तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि सीता सम्भाषिता येन तद्वनं च विनाशितम्
Verse 21
मनः परिगृहीतां तां तव रक्षोगणेश्वर कस्सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः
Verse 22
राक्षसीनां वचश्त्रुत्वा रावणो राक्षसेश्वरः हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः
Verse 23
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः दीप्ताभ्यामिव दीपाभ्यां सार्चिष स्स्नेहबिन्दवः
Verse 24
आत्मनस्सदृशान्शूरान्किङ्करान्नाम राक्षसान् व्यादिदेश महातेजा निग्रहार्थं हनूमतः
Verse 25
तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः महोदरा महादंष्ट्रा घोररूपा महाबलाः युद्धाभिमनसस्सर्वे हनुमद्ग्रहणोद्यताः
Verse 26
तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः महोदरा महादंष्ट्रा घोररूपा महाबलाः युद्धाभिमनसस्सर्वे हनुमद्ग्रहणोद्यताः
Verse 27
ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम् अभिपेतुर्महावेगाः पतङ्गा इव पावकम्
Verse 28
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः
Verse 29
मुद्गरैः पट्टिशैश्शूलैः प्रासतोमरशक्तिभिः परिवार्य हनूमन्तं सहसा तस्थुरग्रतः
Verse 30
हनुमानपि तेजस्वी श्रीमान्पर्वतसन्निभः क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम्
Verse 31
स भूत्वा सुमहाकायो हनुमान्मारुतात्मजः धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्
Verse 32
तस्यास्फोटितशब्देन महता सानुनादिना पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत्
Verse 33
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः राजा जयति सुग्रीवो राघवेणाभिपालितः
Verse 34
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः हनुमान्शत्रुसैन्यानां निहन्ता मारुतात्मजः
Verse 35
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः
Verse 36
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्
Verse 37
तस्य सन्नादशब्देन तेऽभवन्भयशङ्किताः ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम्
Verse 38
स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम् चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः
Verse 39
स तैः परिवृतश्शूरैस्सर्वतस्सुमहाबलः आससादाऽयसं भीमं परिघं तोरणाश्रितम्
Verse 40
स तं परिघमादाय जघान रजनीचरान् स पन्नगमिवादाय स्फुरन्तं विनतासुतः विचचाराम्बरे वीरः परिगृह्य च मारुतिः
Verse 41
स हत्वा राक्षसान्वीरान्किङ्करान्मारुतात्मजः युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः
Verse 42
ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः निहतान्किङ्करान्सर्वान्रावणायन्यवेदयन्
Verse 43
स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम्
0:000:00
Speed: