Book 5 • Chapter 47
Sarga 47
38 verses
Verse 1
सेनापतीन्पञ्च स तु प्रमापितान् हनूमता सानुचरान्सवाहनान् समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः
Verse 2
स तस्य दृष्ट्यर्पणसम्प्रचोदितः प्रतापवान्काञ्चनचित्रकार्मुकः समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः
Verse 3
ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसन्ततम् रथं समास्थाय ययौ स वीर्यवान्महाहरिं तं प्रति नैरृतर्षभः
Verse 4
ततस्तपस्सङ्ग्रहसञ्चयार्जितं प्रतप्तजाम्बूनदजालशोभितम् पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम्
Verse 5
सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम् सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम्
Verse 6
विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा दिवाकराभं रथमास्थितस्ततस्स निर्जगामामरतुल्यविक्रमः
Verse 7
स पूरयन्खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः बलैस्समेतैस्सहि तोरणस्थितं समर्थमासीनमुपागमत्कपिम्
Verse 8
स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये अवस्थितं विस्मितजातसम्भ्रम स्समैक्षताक्षो बहुमानचक्षुषा
Verse 9
स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः विचारयन्स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते
Verse 10
स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थिरस्सम्यति दुर्निवारणम् समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभि श्शितैः
Verse 11
ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् अवैक्षताक्षस्समुदीर्णमानसस्सबाणपाणिः प्रगृहीतकार्मुकः
Verse 12
स हेमनिष्काङ्गदचारुकुण्डल स्समाससादाऽशुपराक्रमः कपिम् तयोर्बभूवाप्रतिमस्समागम स्सुरासुराणामपि सम्भ्रमप्रदः
Verse 13
ररास भूमिर्न तताप भानुमा न्वनौ न वायुः प्रचाचल चाचलः कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे
Verse 14
ततस्स वीरस्सुमुखान् पतत्रिणस्सुवर्णपुङ्खान्सविषानिवोरगान् समाधिसम्योगविमोक्षतत्त्वविच्छरानथ त्रीन्कपिमूर्ध्न्यपातयत्
Verse 15
स तै श्शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः नवोदितादित्यनिभ श्शरांशुमान् व्यराजतादित्य इवांशुमालिकः
Verse 16
ततस्स पिङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः
Verse 17
स मन्दराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा
Verse 18
ततस्स बाणासनचित्रकार्मुक श्शरप्रवर्षो युधि राक्षसाम्बुदः शरान्मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे
Verse 19
ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंयुतम् कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद् घनतुल्यविक्रमम्
Verse 20
स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः समाससादाप्रतिमं कपिं रणे गजो महाकूपमिवावृतं तृणैः
Verse 21
स तेन बाणैः प्रसभं निपातितैश्चकार नादं घननादनिस्स्वनः समुत्पपाताशु नभस्स मारुतिर्भुजोरुविक्षेपणघोरदर्शनः
Verse 22
समुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान् रथी रथिश्रेष्ठतमः किरन्शरैः पयोधरश्शैलमिवाश्मवृष्टिभिः
Verse 23
स तान्शरांस्तस्य हरिर्विमोक्षयंश्चचार वीरः पथि वायुसेविते शरान्तरे मारुतवद्विनिष्पतन्मनोजवस्संयति चण्डविक्रमः
Verse 24
तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विशिखैश्शरोत्तमैः अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः
Verse 25
ततश्शरैर्भिन्नभुजान्तरः कपिः कुमारवीरेण महात्मना नदन् महाभुजः कर्मविशेषतत्त्ववि द्विचिन्तयामास रणे पराक्रमम्
Verse 26
अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते
Verse 27
अयं महात्मा च महांश्च वीर्यत स्समाहितश्चातिसहश्च संयुगे असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः
Verse 28
पराक्रमोत्साहविवृद्धमानस स्समीक्षते मां प्रमुखाग्रतःस्थितः पराक्रमो ह्यस्य मनांसि कम्पयेत्सुरासुराणामपि शीघ्रगामिनः
Verse 29
न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते प्रमापणं त्वेव ममाद्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः
Verse 30
इति प्रवेगं तु परस्य चिन्तयन्स्वकर्मयोगं च विधाय वीर्यवान् चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे महाकपिः
Verse 31
स तस्य तानष्टहयान्महाजवान् समाहितान्भारसहान्विवर्तने जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः
Verse 32
ततस्तलेनाभिहतो महारथ स्स तस्य पिङ्गाधिपमन्त्रिनिर्जितः प्रभग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात्
Verse 33
स तं परित्यज्य महारथो रथं सकार्मुकः खङ्गधरः खमुत्पतन् तपोऽभियोगादृषिरुग्रवीर्यवान्विहाय देहं मरुतामिवालयम्
Verse 34
ततः कपिस्तं विचरन्तमम्बरे पतत्रिराजानिलसिद्धसेविते समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोर्दृढम्
Verse 35
स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः मुमोच वेगात्पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः
Verse 36
स भग्नबाहूरुकटीशिरोधरः क्षरन्नसृङिनर्मथितास्थिलोचनः सम्भग्नसन्धि: प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः
Verse 37
महाकपिर्भूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम् महर्षिभिश्चक्रचरैर्महाव्रतै स्समेत्य भूतैश्च सयक्षपन्नगैः सुरैश्च सेन्द्रैर्भृशजातविस्मयै र्हते कुमारे स कपिर्निरीक्षितः
Verse 38
निहत्य तं वज्रिसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम् तमेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये
0:000:00
Speed: