Book 5 • Chapter 48
Sarga 48
61 verses
Verse 1
ततस्तु रक्षोधिपतिर्महात्मा हनूमताक्षे निहते कुमारे मनस्समाधाय सदेवकल्पं समादिदेशेन्द्रजितं सरोषः
Verse 2
त्वमस्त्रविच्छस्त्रविदां वरिष्ठस्सुरासुराणामपि शोकदाता सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसञ्चितास्त्रः
Verse 3
तवास्त्रबलमासाद्य ससुराः समरुद्गणाः न शेकुस्समरे स्थातुं सुरेश्वरसमाश्रिताः
Verse 4
न कश्चित्त्रिषु लोकेषु संयुगेन गतश्रमः भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः देशकालविभागज्ञस्त्वमेव मतिसत्तमः
Verse 5
न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे न सोऽस्ति कश्चित्त्रिषु सङ्ग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते
Verse 6
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे न त्वां समासाद्य रणावमर्दे मनश्श्रमं गच्छति निश्चितार्थम्
Verse 7
निहताः किङ्करास्सर्वे जम्बुमाली च राक्षसः अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः बलानि सुसमृद्धानि साश्वनागरथानि च
Verse 8
सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन
Verse 9
इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम्
Verse 10
बलावमर्थस्तयि सन्निकृष्टे यथा गते शाम्यति शान्तशत्रौ तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ
Verse 11
न वीरसेना गणशोच्यवन्ति न वज्रमादाय विशालसारम् न मारुतस्यास्य गतेः प्रमाणं न चाग्निकल्पः करणेन हन्तुम्
Verse 12
तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा स्मरंश्च दिव्यं धनुषोऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व
Verse 13
न खल्वियं मतिश्श्रेष्ठा यत्त्वां सम्प्रेषयाम्यहम् इयं च राजधर्माणां क्षत्रियस्य मतिर्मता
Verse 14
नानाशस्त्रेषु सङ्ग्रामे वैशारद्यमरिन्दम अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे
Verse 15
ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः
Verse 16
ततस्तै स्स्वगणैरिष्टैरिन्द्रजित् प्रतिपूजितः युद्धोद्धतः कृतोत्साहस्सङ्ग्रामं प्रत्यपद्यत
Verse 17
श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेस्सुतः निर्जगाम महातेजास्समुद्र इव पर्वसु
Verse 18
स पक्षिराजोपमतुल्यवेगैर्व्याळैश्चतुर्भिः सिततीक्षणदंष्ट्रैः रथं समायुक्तमसहयवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः
Verse 19
स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोस्त्रविदां वरः रथेनाभिययौ क्षिप्रं हनुमान्यत्र सोऽभवत्
Verse 20
स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च निशम्य हरिवीरोऽसौ संप्रहृष्टतरोऽभवत्
Verse 21
सुमहच्चापमादाय शितशल्यांश्च सायकान् हनुमन्तमभिप्रेत्य जगाम रणपण्डितः
Verse 22
तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति चापपाणौ दिशश्च सर्वाः कलुषा बभूवु र्मृगाश्च रौद्रा बहुधा विनेदुः
Verse 23
समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः नभस्समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः
Verse 24
आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः विननाद महानादं व्यवर्धत च वेगवान्
Verse 25
इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः धनुर्विष्फारयामास तटिदूर्जितन्निस्स्वनम्
Verse 26
ततस्समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ कपिश्च रक्षोधिपतेस्तनूजः सुरासुरेन्द्राविव बद्धवैरौ
Verse 27
स तस्य वीरस्य महारथस्य धनुष्मतः संयति सम्मतस्य शरप्रवेगं व्यहनत्प्रवृद्ध श्चचार मार्गे पितुरप्रमेयः
Verse 28
ततश्शरानायततीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान् मुमोच वीरः परवीरहन्ता सुसन्नतान् वज्रनिपातवेगान्
Verse 29
ततस्तु तत्स्यन्दननिस्स्वनं च मृदङ्गभेरीपटहस्वनं च विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात
Verse 30
शराणामन्तरेष्वाशु व्यवर्तत महाकपिः हरिस्तस्याभिलक्ष्यस्य मोघयन्लक्ष्यसंग्रहम्
Verse 31
शराणामग्रतस्तस्य पुनः समभिवर्तत प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः
Verse 32
तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम्
Verse 33
हनुमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम् परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ
Verse 34
ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा
Verse 35
ततो मतिं राक्षसराजसूनु श्चकार तस्मिन् हरिवीरमुख्ये अवध्यतां तस्य कपेस्समीक्ष्य कथं निगच्छेदिति निग्रहार्थम्
Verse 36
ततः पैतामहं वीरः सोऽस्त्रमस्त्रविदां वरः संदधे सुमहत्तेजा: तं हरिप्रवरं प्रति
Verse 37
अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित्
Verse 38
तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः अभवन्निर्विचेष्टश्च पपात स महीतले
Verse 39
ततोऽथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद्विगतात्मवेगः पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः
Verse 40
तत स्स्वायम्बुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् हनुमांश्चिन्तयामास वरदानं पितामहात्
Verse 41
न मेऽस्त्रबन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् इत्येव मत्वा विहितोऽस्त्रबन्धो मयात्मयोनेरनुवर्तितव्यः
Verse 42
स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म
Verse 43
अस्त्रेणापि हि बद्धस्य भयं मम न जायते पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च
Verse 44
ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम् राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परे
Verse 45
स निश्चितार्थः परवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्त्रै: परिभर्त्स्यमानः
Verse 46
ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिंदमम् बबन्धुश्शणवल्कैश्च द्रुमचीरैश्च संहतैः
Verse 47
स रोचयामास परैश्च बन्धनं प्रसह्य वीरैरभिनिग्रहं च कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः
Verse 48
स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते
Verse 49
अथेन्द्रजित्तु द्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् विमुक्तमस्त्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्ततेऽस्त्रम्
Verse 50
अहो महत्कर्म कृतं निरर्थकम्कं न राक्षसैर्मन्त्रगतिर्विमृष्टा पुनश्च मन्त्रे विहतेऽस्त्रमन्यत्प्रवर्तते संशयिता स्स्मसर्वे
Verse 51
अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यत कृष्यमाणस्तु रक्षोभि स्तौश्च बन्धैर्निपीडितः
Verse 52
हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः
Verse 53
अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः न्यदर्शयत्तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे
Verse 54
तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्
Verse 55
कोऽयं कस्य कुतोवात्र किं कार्यं को व्यपाश्रयः इति राक्षसवीराणां तत्र सञ्जज्ञिरे कथाः
Verse 56
हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे राक्षसास्तत्र सङ्क्रुद्धा: परस्परमथाब्रुवन्
Verse 57
अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोधिपपादमूले ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च
Verse 58
स ददर्श महातेजा रावणः कपिसत्तमम् रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः
Verse 59
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः तेजोबलसमायुक्तं तपन्तमिव भास्करम्
Verse 60
सरोषसम्वर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रिमुख्यान्
Verse 61
यथाक्रमं तैस्स कपिर्विपृष्टः कार्यार्थमर्धस्य च मूलमादौ निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोऽस्मि
0:000:00
Speed: