🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 49

Sarga 49

20 verses

Verse 1
ततस्स कर्मणा तस्य विस्मितो भीमविक्रमः हनुमान्रोषताम्राक्षो रक्षोधिपमवैक्षत
Verse 2
भ्राजमानं महार्हेण काञ्चनेन विराजता मुक्ताजालावृतेनाथ मकुटेन महाद्युतिम्
Verse 3
वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः
Verse 4
महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् स्वानुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः
Verse 5
विचित्रैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम् नानाव्यालसमाकीर्णैश्शिखरैरिव मन्दरम्
Verse 6
विचित्रैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम् नानाव्यालसमाकीर्णैश्शिखरैरिव मन्दरम्
Verse 7
नीलाञ्जनचयप्रख्यं हारेणोरसि राजता पूर्णचन्द्राभवक्त्रेण सबलाकमिवाम्बुदम्
Verse 8
बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षैरिवोरगैः
Verse 9
महतिस्फाटिके चित्रे रत्नसंयोगसंस्कृते उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने
Verse 10
अलङ्कृताभिरत्यर्थं प्रमदाभिः समन्ततः वालव्यजनहस्ताभिरारात्समुपसेवितम्
Verse 11
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन  मन्त्रिणा सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः कृत्स्नं परिवृतं लोकं चतुर्भिरिव सागरैः
Verse 12
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन  मन्त्रिणा सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः कृत्स्नं परिवृतं लोकं चतुर्भिरिव सागरैः
Verse 13
मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः अन्वास्यमानं रक्षोभिः सुरैरिव सुरेश्वरम्
Verse 14
अपश्यद्राक्षसपतिं हनुमानतितेजसम् विष्ठितं मेरुशिखरे सतोयमिव तोयदम्
Verse 15
 तैस्सम्पीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः विस्मयं परमं गत्वा रक्षोधिपमवैक्षत
Verse 16
भ्राजमानं ततो दृष्ट्वा हनुमान्राक्षसेश्वरम् मनसा चिन्तयामास तेजसा तस्य मोहितः
Verse 17
अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः अहो राक्षसराजस्य सर्वलक्षणयुक्तता
Verse 18
यद्यधर्मो  बलवान् स्यादयं राक्षसेश्वरः स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता
Verse 19
अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः सर्वे बिभ्यति खल्वस्माल्लोकास्सामरदानवाः अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत्
Verse 20
इति चिन्तां बहुविधामकरोन्मतिमान् हरिः दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः
0:000:00
Speed: