Book 5 • Chapter 50
Sarga 50
19 verses
Verse 1
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरत स्थितम् कोपेन महताऽविष्टो रावणो लोकरावणः शङ्काहृतात्मा दध्यौ स कपीन्द्रं तेजसावृतम्
Verse 2
किमेष भगवान्नन्दी भवेत्साक्षादिहागतः येन शप्तोऽस्मि कैलासे मया सञ्चालिते पुरा सोऽयं वानरमूर्तिस्स्यात्किंस्विद्बाणो महाऽसुरः
Verse 3
किमेष भगवान्नन्दी भवेत्साक्षादिहागतः येन शप्तोऽस्मि कैलासे मया सञ्चालिते पुरा सोऽयं वानरमूर्तिस्स्यात्किंस्विद्बाणो महाऽसुरः
Verse 4
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् कालयुक्तमुवाचेदं वचोऽविपुलमर्थवत्
Verse 5
दुरात्मा पृच्छ्यतामेष कुतः किं वात्र कारणम् वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने
Verse 6
मत्पुरीमप्रधृष्यां वाऽगमने किं प्रयोजनम् आयोधने वा किं कार्यं पृच्छयतामेष दुर्मतिः
Verse 7
रावणस्य वचश्श्रुत्वा प्रहस्तो वाक्यमब्रवीत् समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे
Verse 8
यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे
Verse 9
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् विष्णुना प्रेषितो वाऽपि दूतो विजयकाङ्क्षिणा
Verse 10
न हि ते वानरं तेजो रूपमात्रं तु वानरम् तत्त्वत: कथयस्वाद्य ततो वानर मोक्ष्यसे
Verse 11
अनृतं वदतश्चापि दुर्लभं तव जीवितम् अथवा यन्निमित्तस्ते प्रवेशो रावणालये
Verse 12
एवमुक्तो हरिश्रेष्ठस्तदा रक्षोगणेश्वरम् अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा धनदेन न मे सख्यं विष्णुना नास्मि चोदितः जातिरेव मम त्वेषा वानरोऽहमिहागतः
Verse 13
एवमुक्तो हरिश्रेष्ठस्तदा रक्षोगणेश्वरम् अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा धनदेन न मे सख्यं विष्णुना नास्मि चोदितः जातिरेव मम त्वेषा वानरोऽहमिहागतः
Verse 14
दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया वनं राक्षसराजस्य दर्शनार्थे विनाशितम्
Verse 15
ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे
Verse 16
अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि पितामहादेष वरो मामाप्येषोऽभ्युपागतः
Verse 17
राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः केनचिद्राजकार्येण सम्प्राप्तोऽस्मि तवान्तिकम्
Verse 18
राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः केनचिद्राजकार्येण सम्प्राप्तोऽस्मि तवान्तिकम्
Verse 19
दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो
0:000:00
Speed: