🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 51

Sarga 51

46 verses

Verse 1
तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम्
Verse 2
अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम् राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत्
Verse 3
भ्रातुश्शृणु समादेशं सुग्रीवस्य महात्मनः धर्मार्थोपहितं वाक्यमिह चामुत्र  क्षमम्
Verse 4
राजा दशरथो नाम रथकुञ्जरवाजिमान् पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः
Verse 5
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया रामो नाम महातेजा धर्म्यं पन्थानमास्थितः
Verse 6
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया रामो नाम महातेजा धर्म्यं पन्थानमास्थितः
Verse 7
तस्य भार्या वने नष्टा सीता पतिमनुव्रता वैदेहस्य सुता राज्ञो जनकस्य महात्मनः
Verse 8
 मार्गमाणस्तां देवीं राजपुत्रः सहानुजः ऋश्यमूकमनुप्राप्त: सुग्रीवेण समागतः
Verse 9
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम्
Verse 10
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः
Verse 11
त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः रामेण निहतस्सङ्ख्ये शरेणैकेन वानरः
Verse 12
 सीतामार्गणे व्यग्रस्सुग्रीवः सत्यसङ्गरः हरीन् सम्प्रेषयामास दिशस्सर्वा हरीश्वरः
Verse 13
तां हरीणां सहस्राणि शतानि नियुतानि  दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे
Verse 14
वैनतेयसमाः केचित्केचित्तत्रानिलोपमाः असङ्गगतयशशीघ्रा हरिवीरा महाबलाः
Verse 15
अहं तु हनुमान्नाम मारुतस्यौरसस्सुतः सीतायास्तु कृते तूर्णं शतयोजनमायतम् समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः
Verse 16
भ्रमता  मया दृष्टा गृहे ते जनकात्मजा तद्भवान् दृष्टधर्मार्थस्तपःकृतपरिग्रहः परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि
Verse 17
भ्रमता  मया दृष्टा गृहे ते जनकात्मजा तद्भवान् दृष्टधर्मार्थस्तपःकृतपरिग्रहः परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि
Verse 18
 हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः
Verse 19
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि
Verse 20
 चापि त्रिषु लोकेषु राजन्विद्येत कश्चन राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात्
Verse 21
तत् त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि  मन्यस्व नरदेवाय जानकी प्रतिदीयताम्
Verse 22
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः
Verse 23
लक्षितेयं मया सीता तथा शोकपरायणा गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम्
Verse 24
नेयं जरयितुं शक्या सासुरैरमरैरपि विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा
Verse 25
तपस्सन्तापलब्धस्ते योऽयं धर्मपरिग्रहः   नाशयितुं न्याय्य आत्मप्राणपरिग्रहः
Verse 26
अवध्यतां तपोभिर्यां भवान् समनुपश्यति आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान्
Verse 27
सुग्रीवो  हि देवोऽयं नासुरो   राक्षसः  दानवो  गन्धर्वो  यक्षो   पन्नगः तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि
Verse 28
 तु धर्मोपसंहारमधर्मफलसंहितम् तदेव फलमन्वेति धर्मश्चाधर्मनाशन:
Verse 29
प्राप्तं धर्मफलं तावद्भवता नात्र संशयः फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे
Verse 30
जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा रामसुग्रीवसख्यं  बुध्यस्व हितमात्मनः
Verse 31
कामं खल्वहमप्येकस्सवाजिरथकुञ्जराम् लङ्कां नाशयितुं शक्तस्तस्यैष तु  निश्चयः
Verse 32
रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता
Verse 33
अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः  सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः
Verse 34
यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम्
Verse 35
तदलं कालपाशेन सीताविग्रहरूपिणा स्वयं स्कन्धावसक्तेन क्षेममात्मनि चिन्त्यताम्
Verse 36
सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम्
Verse 37
स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रात्रून् सुतान् हितान् भोगान्दारांश्च लङ्कां  मा विनाशमुपानय
Verse 38
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम रामदासस्य दूतस्य वानरस्य विशेषतः
Verse 39
सर्वान् लोकान् सुसंहृत्य सभूतान् सचराचरान् पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः
Verse 40
देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु  विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु  सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु  सर्वतः सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः यो रामं प्रतियुध्येत विष्णुतुल्यपराक्रमम्
Verse 41
देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु  विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु  सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु  सर्वतः सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः यो रामं प्रतियुध्येत विष्णुतुल्यपराक्रमम्
Verse 42
देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु  विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु  सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु  सर्वतः सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः यो रामं प्रतियुध्येत विष्णुतुल्यपराक्रमम्
Verse 43
सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम् रामस्य राजसिंहस्य दुर्लभं तव जीवितम्
Verse 44
देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः रामस्य लोकत्रयनायकस्य स्थातुं  शक्तास्समरेषु सर्वे
Verse 45
ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिणेत्रस्त्रिपुरान्तको वा इन्द्रो महेन्द्रस्सुरनायको वा त्रातुं  शक्ता युधि रामवध्यम्
Verse 46
 सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः दशाननः कोपविवृत्तलोचनः समादिशत्तस्य वधं महाकपेः
0:000:00
Speed: