🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 52

Sarga 52

26 verses

Verse 1
तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः आज्ञापयद्वधं तस्य रावणः क्रोधमूर्छितः
Verse 2
वधे तस्य समाज्ञप्ते रावणेन दुरात्मना निवेदितवतो दौत्यं नानुमेने विभीषणः
Verse 3
तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः
Verse 4
निश्चितार्थस्ततस्साम्ना पूज्यं शत्रुजिदग्रजम् उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः
Verse 5
क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व वधं  कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः
Verse 6
राजधर्मविरुद्धं  लोकवृत्तेश्च गर्हितम् तव चासदृशं वीर कपेरस्य प्रमापणम्
Verse 7
धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः परावरज्ञो भूतानां त्वमेव परमार्थवित्
Verse 8
गृह्यन्ते यदि रोषेण त्वादृशोऽपि विचक्षणः तत श्शास्त्रविपश्चित्त्वं श्रम एव हि केवलम्
Verse 9
तस्मात्प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम्
Verse 10
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत्
Verse 11
 पापानां वधे पापं विद्यते शत्रुसूदन तस्मादेनं वधिष्यामि वानरं पापचारिणम्
Verse 12
अधर्ममूलं बहुदोषयुक्तमनार्यजुष्टं वचनं निशम्य उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः
Verse 13
प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व दूतानवध्यान् समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः
Verse 14
असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम्  दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः
Verse 15
वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसन्निपातः एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य  नः श्रुतोऽस्ति
Verse 16
कथं  धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः
Verse 17
 धर्मवादे   लोकवृत्ते  शास्त्रबुद्धिग्रहणेषु चापि विद्येत कश्चित्तव वीर तुल्य स्त्वंह्युत्तमस्सर्वसुरासुराणाम्
Verse 18
शूरेण वीरेण निशाचरेन्द्र सुरासुराणामपि दुर्जयेन त्वया प्रगल्भाः सुरदैत्यसङ्घा जिताश्च युद्धेष्वसकृन्नरेन्द्राः
Verse 19
 चाप्यस्य कपेर्घाते कञ्चित्पश्याम्यहं गुणम् तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः
Verse 20
साधुर्वा यदि वाऽसाधुः परैरेष समर्पितः ब्रुवन् परार्थं परवान्न दूतो वधमर्हति
Verse 21
अपि चास्मिन् हते राजन्नान्यं पश्यामि खेचरम् इह यः पुनरागच्छेत्परं पारं महोदधेः
Verse 22
तस्मान्नास्य वधे यत्नः कार्य: परपुरञ्जय भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति
Verse 23
अस्मिन्विनष्टे  हि वीरमन्यं पश्यामि यस्तौ वरराजपुत्रौ युद्धाय युद्धप्रियदुर्विनीतावुद्योजयेद्धीर्घपथावरुद्धौ
Verse 24
पराक्रमोत्साहमनस्विनां  सुरासुराणामपि दुर्जयेन त्वया मनोनन्दन नैतानां युद्धायतिर्नाशयतुं  युक्ता
Verse 25
हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु मनस्विनश्शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः
Verse 26
तदेकदेशेन बलस्य तावत्केचित्तवाऽऽदेशकृतोऽभियान्तु तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम्
0:000:00
Speed: