🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 53

Sarga 53

44 verses

Verse 1
तस्य तद्वचनं श्रुत्वा दशग्रीवो महात्मनः देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत्
Verse 2
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः
Verse 3
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु
Verse 4
ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् समित्रज्ञातयस्सर्वे बान्धवाः ससुहृज्जनाः आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्
Verse 5
ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् समित्रज्ञातयस्सर्वे बान्धवाः ससुहृज्जनाः आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्
Verse 6
तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः
Verse 7
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः
Verse 8
तैलेन परिषिच्याथ तेऽग्निं तत्राभ्यपातयन् लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् रोषामर्षपरीतात्मा बालसूर्यसमाननः
Verse 9
लाङ्गूलं सम्प्रदीप्तं तु द्रष्टुं तस्य हनूमतः सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः
Verse 10
 भूयः सङ्गतैः क्रूरैर्राक्षसैर्हरिसत्तमः निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम्
Verse 11
कामं खलु  मे शक्ता निबद्धस्यापि राक्षसाः छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान्पुनः
Verse 12
यदि भर्तुर्हितार्थाय चरन्तं भर्तृशासनात् बध्नन्त्येते दुरात्मनो  तु मे निष्कृतिः कृता
Verse 13
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि किंतु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् लङ्का चारयितव्या वै पुनरेव भवेदिति
Verse 14
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि किंतु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् लङ्का चारयितव्या वै पुनरेव भवेदिति
Verse 15
रात्रौ  हि सुदृष्टा मे दुर्गकर्मविधानतः अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये
Verse 16
कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन  पीडां कुर्वन्तु रक्षांसि  मेऽस्ति मनसश्श्रमः
Verse 17
ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम्
Verse 18
शङ्खभेरीनिनादैस्तं घोषयन्तः स्वकर्मभिः राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम्
Verse 19
अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः हनुमांश्चारयामास राक्षसानां महापुरीम्
Verse 20
अथापश्यद्विमानानि विचित्राणि महाकपिः संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान्
Verse 21
वीथीश्च गृहसम्बाधाः कपिश्शृङ्गाटकानि  तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः
Verse 22
चत्वरेषु चतुष्केषु राजमार्गे तथैव  घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः
Verse 23
स्त्रीबालवृद्धाः निर्जग्मुस्तत्र तत्र कुतूहलात् तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः
Verse 24
दीप्यमाने ततस्तत्र लाङ्गूलाग्रे हनूमतः राक्षस्यस्ता विरूपाक्ष्य श्शंसुर्देव्यास्तदप्रियम्
Verse 25
यस्त्वया कृतसंवाद स्सीते ताम्रमुखः कपिः लाङ्गूलेन प्रदीप्तेन  एष परिणीयते
Verse 26
श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् वैदेही शोकसन्तप्ता हुताशनमुपागमत्
Verse 27
मङ्गलाभिमुखी तस्य सा तदाऽसीन्महाकपेः उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्
Verse 28
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः
Verse 29
यदि किञ्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः यदि वा भाग्यशेषो मे शीतो भव हनूमतः
Verse 30
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम्  विजानाति धर्मात्मा शीतो भव हनूमतः
Verse 31
यदि मां तारयेदार्यस्सुग्रीवः सत्यसङ्गरः अस्माद्धुःखाम्बुसंरोधाच्छीतो भव हनूमतः
Verse 32
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः जज्वाल मृगशाबाक्ष्या श्शंसन्निव शिवं कपेः
Verse 33
हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः
Verse 34
दह्यमाने  लाङ्गूले चिन्तयामास वानरः प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः
Verse 35
दृश्यते  महाज्वालः करोति   मे रुजम् शिशिरस्येव सङ्घातो लाङ्गूलाग्रे प्रतिष्ठितः
Verse 36
अथवा तदिदं व्यक्तं यद्दृष्टं प्लवता मया रामप्रभावादाश्चर्यं पर्वत स्सरितां पतौ
Verse 37
यदि तावत्समुद्रस्य मैनाकस्य  धीमतः रामार्थं सम्भ्रमस्तादृक्किमग्निर्न करिष्यति
Verse 38
सीतायाश्चानृशंस्येन तेजसा राघवस्य  पितुश्च मम सख्येन  मां दहति पावकः
Verse 39
भूयस्स चिन्तयामास मुहूर्तं कपिकुञ्जरः उत्पपाताथ वेगेन ननाद  महाकपिः
Verse 40
पुरद्वारं ततश्श्रीमान् शैलशृङ्गमिवोन्नतम् विभक्तरक्षस्सम्बाधमाससादानिलात्मजः
Verse 41
 भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत्
Verse 42
विमुक्तश्चाभवछ्रचीमान् पुनः पर्वतसन्निभः वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम्
Verse 43
 तं गृह्य महाबाहुः कालायसपरिष्कृतम् रक्षिणस्तान् पुनस्सर्वान्सूदयामास मारुतिः
Verse 44
 तान्निहत्त्वा रणचण्डविक्रम स्समीक्षमाणः पुनरेव लङ्काम् प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली
0:000:00
Speed: