🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 54

Sarga 54

50 verses

Verse 1
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः वर्धमानसमुत्साहः कार्यशेषमचिन्तयत्
Verse 2
किन्नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् यदेषां रक्षसां भूयः सन्तापजननं भवेत्
Verse 3
वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः 5.54.3 बलैकदेशः क्षपितश्शेषं दुर्गविनाशनम्
Verse 4
दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम् अल्पयत्नेन कार्येऽस्मिन् मम स्यात्सफलश्श्रमः
Verse 5
यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः
Verse 6
ततः प्रदीप्तलाङ्गूलस्सविद्युदिव तोयदः भवनाग्रेषु लङ्काया विचचार महाकपिः
Verse 7
गृहाद्गृहं राक्षसानामुद्यानानि  वानरः वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः
Verse 8
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् अग्निं तत्र  निक्षिप्य श्वसनेन समो बली ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् मुमोच हनुमानग्निं कालानलशिखोपमम्
Verse 9
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् अग्निं तत्र  निक्षिप्य श्वसनेन समो बली ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् मुमोच हनुमानग्निं कालानलशिखोपमम्
Verse 10
वज्रदंष्ट्रस्य  तदा पुप्लुवे  महाकपिः शुकस्य  महातेजास्सारणस्य  धीमतः
Verse 11
तथा चेन्द्रजितो वेश्म ददाह हरियूथपः जम्बुमाले स्सुमालेश्च ददाह भवनं ततः
Verse 12
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव  ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य  रक्षसः युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य  करालस्य पिशाचस्य शोणिताक्षस्य चैव हि कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव  नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः वर्जयित्वा महातेजा विभीषणगृहं प्रति क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः
Verse 13

Verse 14

Verse 15

Verse 16

Verse 17
तेषु तेषु महार्हेषु भवनेषु महायशाः गृहेष्वृद्धिमतामृद्धिं ददाह  महाकपिः
Verse 18
सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् आससादाथ लक्ष्मीवान् रावणस्य निवेशनम्
Verse 19
ततस्तस्मिन्गृहे मुख्ये नानारत्नविभूषिते मेरुमन्दरसङ्काशे सर्वमङ्गळशोभिते प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम् ननाद हनुमान्वीरो युगान्तजलदो यथा
Verse 20
ततस्तस्मिन्गृहे मुख्ये नानारत्नविभूषिते मेरुमन्दरसङ्काशे सर्वमङ्गळशोभिते प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम् ननाद हनुमान्वीरो युगान्तजलदो यथा
Verse 21
श्वसनेन  संयोगादतिवेगो महाबलः कालाग्निरिव जज्वाल प्रावर्धत हुताशनः
Verse 22
प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत् अभूच्छ्वसनसंयोगादतिवेगो हुताशनः
Verse 23
तानि काञ्चनजालानि मुक्तामणिमयानि  भवनान्यवशीर्यन्त रत्नवन्ति महान्ति 
Verse 24
संजज्ञे तुमुलश्शब्दो राक्षसानां प्रधावताम् स्वगृहस्य परित्राणे भग्नोत्साहोर्जितश्रियाम् नूनमेषोऽग्निरायातः कपिरूपेण हा इति
Verse 25
क्रन्दन्त्यस्सहसा पेतुः स्तनन्धयधराः स्त्रियः काश्चिदग्निपरीतेभ्यो हर्मेभ्यो मुक्तमूर्धजाः पतन्त्यो रेजिरेऽभ्रेभ्यस्सौदामन्य इवाम्बरात्
Verse 26
क्रन्दन्त्यस्सहसा पेतुः स्तनन्धयधराः स्त्रियः काश्चिदग्निपरीतेभ्यो हर्मेभ्यो मुक्तमूर्धजाः पतन्त्यो रेजिरेऽभ्रेभ्यस्सौदामन्य इवाम्बरात्
Verse 27
वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान् विचित्रान्भवनाद्धातून् स्यन्दमानान्ददर्श सः
Verse 28
नाग्निस्तृप्यति काष्ठानां तृणानां  यथा तथा हनूमान् राक्षसेन्दाणां विशस्तानां  तृप्यति
Verse 29
क्वचित्किंशुकसङ्काशाः क्वचिच्छाल्मलिसन्निभाः क्वचित्कुङ्कुमसङ्काशाश्शिखा वह्नेश्चकाशिरे
Verse 30
हनूमता वेगवता वानरेण महात्मना लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा
Verse 31
ततस्तु लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः प्रसार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः
Verse 32
युगान्तकालानलतुल्यवेग स्समारुतोऽग्निर्ववृधे दिविस्पृक् विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्यसमर्पतार्चिः
Verse 33
आदित्यकोटीसदृशस्सुतेजा लङ्कां समस्तां परिवार्य तिष्ठन् शब्दैरनेकैरशनिप्ररूढैर्भिन्दन्निवाण्डं प्रबभौ महाग्निः
Verse 34
तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः
Verse 35
वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणोऽनिलो वा रुद्रोऽग्निरर्को धनदश्च सोमो  वानरोऽयं स्वयमेव कालः
Verse 36
किं ब्रह्मणस्सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य इहाऽऽगतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः
Verse 37
किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा
Verse 38
इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य
Verse 39
ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम्
Verse 40
हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम् रक्षोभिरेवं बहुधा ब्रुवद्भि श्शब्दः कृतो घोरतरस्सुभीमः
Verse 41
हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का
Verse 42
 सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम् ददर्श लङ्कां हनुमान्महामनाः स्वयम्भूकोपोपहतामिवावनिम्
Verse 43
भङ्क्त्वा वनं पादपरत्नसङ्कुलं हत्वा तु रक्षांसि महान्ति संयुगे दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान्पवनात्मजः कपिः
Verse 44
त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजताऽऽदित्य इवांशुमाली
Verse 45
 राक्षसांस्तान्सुबहूंश्च हत्वा वनं  भङ्क्त्वा बहुपादपं तत् विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा
Verse 46
ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे
Verse 47
भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे दग्ध्वा लङ्कापुरीं रम्यां रराज  महाकपिः
Verse 48
तत्र देवास्सगन्धर्वास्सिद्धाश्च परमर्षयः दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः
Verse 49
तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम् कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः
Verse 50
देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम्
0:000:00
Speed: