🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 55

Sarga 55

34 verses

Verse 1
लङ्कां समस्तां सन्दीप्य लाङ्गूलाग्निं महाबलः निर्वापयामास तदा समुद्रे हरिसत्तमः सन्दीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम् आवेक्ष्य हनुमान् लङ्कां चिन्तयामास वानरः
Verse 2
तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया
Verse 3
धन्यास्ते पुरुषश्रेष्ठा ये बुद्ध्या कोपमुत्थितम् निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा
Verse 4
क्रुद्धः पापं  कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि क्रुद्धः परुषया वाचा नरस्साधूनधिक्षिपेत्
Verse 5
वाच्यावाच्यं प्रकुपितो  विजानाति कर्हिचित् नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित्
Verse 6
यस्समुत्पतितं क्रोधं क्षमयैव निरस्यति यथोरगस्त्वचं जीर्णां  वै पुरुष उच्यते
Verse 7
धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम् अचिन्तयित्वा तां सीतामग्निदं स्वामिघातुकम्
Verse 8
यदि दग्धा त्वियं लङ्का नूनमार्याऽपि जानकी दग्धा तेन मया भर्तुर्हितं कार्यमजानता
Verse 9
यदर्थमयमारम्भस्तत्कार्यमवसादितम् मया हि दहता लङ्कां  सीता परिरक्षिता
Verse 10
ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः
Verse 11
विनष्टा जानकी नूनं  ह्यदग्धः प्रदृश्यते लङ्कायां कश्चिदुद्धेशस्सर्वा भस्मीकृता पुरी
Verse 12
यदि तद्विहतं कार्यं मम प्रज्ञाविपर्ययात् इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते
Verse 13
किमग्नौ निपताम्यद्य आहोस्विद्बडबामुखे शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम्
Verse 14
कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना
Verse 15
मया खलु तदेवेदं रोषदोषात्प्रदर्शितम् प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम्
Verse 16
धिगस्तु राजसं भावमनीशमनवस्थितम् ईश्वरेणापि यद्रागान्मया सीता  रक्षिता
Verse 17
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति
Verse 18
एतदेव वचश्श्रुत्वा भरतो भ्रातृवत्सलः धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम्
Verse 19
इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम् भविष्यन्ति प्रजास्सर्वाश्शोकसन्तापपीडिताः
Verse 20
तदहं भाग्यरहितो लुप्तधर्मार्थसङ्ग्रहः रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः
Verse 21
इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत्
Verse 22
अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा  नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते
Verse 23
 हि धर्मात्मनस्तस्य भार्याममिततेजसः स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः
Verse 24
नूनं रामप्रभावेण वैदेह्यास्सुकृतेन  यन्मां दहनकर्मायं नादहद्धव्यवाहनः
Verse 25
त्रयाणां भरतादीनां भ्रात्रूणां देवता  या रामस्य  मन: कान्ता सा कथं विनशिष्यति
Verse 26
यद्वा दहनकर्मायं सर्वत्र प्रभुरव्ययः  मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति 5.55.26
Verse 27
पुनश्चाचिन्तयत्तत्र हनुमान्विस्मितस्तदा हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम्
Verse 28
तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि अपि सा निर्दहेदग्निं  तामग्निः प्रधक्ष्यति
Verse 29
 तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् शुश्राव हनुमान्वाक्यं चारणानां महात्मनाम्
Verse 30
अहो खलु कृतं कर्म दुष्करं हि हनूमता अग्निं विसृजताऽभीक्ष्णं भीमं राक्षसवेश्मनि
Verse 31
प्रपलायितरक्षः स्त्रीबालवृद्धसमाकुला जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरै:
Verse 32
दग्धेयं नगरी सर्वा साट्टप्राकारतोरणा जानकी   दग्धेति विस्मयोऽद्भुत एव नः
Verse 33
 निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः
Verse 34
ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा प्रत्यक्षतस्तां पुनरेव दृष्टवा प्रतिप्रयाणाय मतिं चकार
0:000:00
Speed: