Book 5 • Chapter 56
Sarga 56
34 verses
Verse 1
ततस्तु शिंशुपामूले जानकीं पर्युपस्थिताम् अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम्
Verse 2
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत
Verse 3
काममस्य त्वमेवैकः कार्यस्य परिसाधने पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः
Verse 4
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्
Verse 5
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः भवत्याहवशूरस्य तथा त्वमुपपादय
Verse 6
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत्
Verse 7
क्षिप्रमेष्यति काकुत्स्थः हर्यृक्षप्रवरैर्वृतः यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति
Verse 8
एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत्
Verse 9
ततस्स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः
Verse 10
तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः सोत्तरीयमिवाम्भोदैः शृंगान्तरविलम्बिभिः
Verse 11
बोध्यमानमिव प्रीत्या दिवाकरकरैश्शुभैः उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः
Verse 12
तोयौघननिस्स्वनैर्मन्द्रैः प्राधीतमिव पर्वतम् प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः
Verse 13
देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम् प्रपातजलनिर्घोषैः प्राक्रुष्टमिव सर्वतः
Verse 14
वेपमानमिव श्यामैः कम्पमानैश्शरद्वनैः वेणुभिर्मारुतोद्धूतैः कूजन्तमिव कीचकैः
Verse 15
निश्श्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः
Verse 16
मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः जृंम्भमाणमिवाऽकाशे शिखरैरभ्रमालिभिः
Verse 17
कूटैश्च बहुधा कीर्णैश्शोभितं बहुकन्दरैः सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम्
Verse 18
लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम् नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम्
Verse 19
बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् महर्षियक्षगन्धर्वकिन्नरोरगसेवितम्
Verse 20
लतापादपसङ्घातं सिंहाध्युषितकन्दरम् व्याघ्रसङ्घसमाकीर्णं स्वादुमूलफलद्रुमम्
Verse 21
तमारुरोह हनुमान् पर्वतं पवनात्मजः रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः
Verse 22
तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु सघोषास्समशीर्यन्त शिलाश्चूर्णीकृतास्ततः
Verse 23
स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः दक्षिणादुत्तरं पारं प्रार्थयन् लवणाम्भसः
Verse 24
अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ददर्श सागरं भीमं मीनोरगनिषेवितम्
Verse 25
स मारुत इवाऽकाशं मारुतस्यात्मसम्भवः प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम्
Verse 26
स तदा पीडितस्तेन कपिना पर्वतोत्तमः ररास सह तैर्भूतैः प्रविशन्वसुधातलम् कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः
Verse 27
तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः निपेतुर्भूतले रुग्णाश्शक्रायुधहता इव
Verse 28
कन्दरान्तरसंस्थानां पीडितानां महौजसाम् सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे
Verse 29
त्रस्तव्यावृत्तवसना व्याकुलीकृतभूषणाः विद्याधर्यः समुत्पेतुस्सहसा धरणीधरात्
Verse 30
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः निपीडितशिरोग्रीवा व्यचेष्टन्त महाहयः
Verse 31
किन्नरोरगन्धर्वयक्षविद्याधरास्तदा पीडितं तं नगवरं त्यक्त्वा गगनमास्थिता:
Verse 32
स च भूमिधरः श्रीमान्बलिना तेन पीडितः सवृक्षशिखरोदग्रः प्रविवेश रसातलम्
Verse 33
दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः धरण्यां समतां यातः स बभूव धराधरः
Verse 34
स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम् कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः
0:000:00
Speed: