Book 5 • Chapter 57
Sarga 57
51 verses
Verse 1
स चन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम् पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम् ऐरावतमहाद्वीपं स्वातिहंसविलोलितम् वातसङ्घातजातोर्मि चन्द्रांशुशिशिराम्बुमत् भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् हनुमान्मारुतगतिर्महानौरिव सागरम् अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम्
Verse 2

Verse 3

Verse 4

Verse 5
ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् मारुतस्यात्मजः श्रीमान्कपिर्व्योमचरो महान् हनुमान्मेघजालानि विकर्षन्निव गच्छति
Verse 6
ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् मारुतस्यात्मजः श्रीमान्कपिर्व्योमचरो महान् हनुमान्मेघजालानि विकर्षन्निव गच्छति
Verse 7
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च हरितारुणवर्णानि महाभ्राणि चकाशिरे
Verse 8
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते
Verse 9
विविधाभ्रघनापन्नगोचरो धवलाम्बरः दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायतेऽम्बरे
Verse 10
तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः दारयन्मेघबृन्दानि निष्पतंश्च पुनः पुनः नदन्नादेन महता मेघस्वनमहास्वनः
Verse 11
प्रवरान्राक्षसान् हत्वा नाम विश्राव्य चात्मनः आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च आजगाम महातेजाः पुनर्मध्येन सागरम्
Verse 12
प्रवरान्राक्षसान् हत्वा नाम विश्राव्य चात्मनः आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च आजगाम महातेजाः पुनर्मध्येन सागरम्
Verse 13
पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः
Verse 14
स किञ्चिदनुसम्प्राप्तः समालोक्य महागिरिम् महेन्द्रं मेघसङ्काशं ननाद हरिपुङ्गवः
Verse 15
स पूरयामास कपिर्दिशो दश समन्ततः नदन्नादेन महता मेघस्वनमहास्वनः
Verse 16
स तं देशमनुप्राप्तः सुहृद्धर्शनलालसः ननाद हरिशार्दूलो लाङ्गूलं चाप्यकम्पयत्
Verse 17
तस्य नानद्यमानस्य सुपर्णचरिते पथि फलतीवास्य घोषेण गगनं सार्कमण्डलम्
Verse 18
ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः पूर्वं संविष्ठिताश्शूरा वायुपुत्रदिदृक्षवः महतो वातनुन्नस्य तोयदस्येव गर्जितम् शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः
Verse 19
ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः पूर्वं संविष्ठिताश्शूरा वायुपुत्रदिदृक्षवः महतो वातनुन्नस्य तोयदस्येव गर्जितम् शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः
Verse 20
ते दीनमनसस्सर्वे शुश्रुवुः काननौकसः वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम्
Verse 21
निशम्य नदतो नादं वानरास्ते समन्ततः बभूवुरुत्सुकास्सर्वे सुहृद्धर्शनकाङ्क्षिणः
Verse 22
जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत्
Verse 23
सर्वथा कृतकार्योऽसौ हनुमान्नात्र संशयः न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत्
Verse 24
तस्य बाहूरुवेगं च निनादं च महात्मनः निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः
Verse 25
ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः
Verse 26
ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः वासांसीव प्रशाखाश्च समाविध्यन्त वानराः
Verse 27
गिरिगह्वरसंलीनो यथा गर्जति मारुतः एवं जगर्ज बलवान् हनुमान्मारुतात्मजः
Verse 28
तमभ्रघनसङ्काशमापतन्तं महाकपिम् दृष्ट्वा ते वानरास्सर्वे तस्थुः प्राञ्जलयस्तदा
Verse 29
ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः निपपात महेन्द्रस्य शिखरे पादपाकुले
Verse 30
हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे छिन्नपक्ष इवाऽकाशात्पपात धरणीधरः
Verse 31
ततस्ते प्रीतमनसस्सर्वे वानरपुङ्गवाः हनुमन्तं महात्मानं परिवार्योपतस्थिरे परिवार्य च ते सर्वे परां प्रीतिमुपागताः
Verse 32
ततस्ते प्रीतमनसस्सर्वे वानरपुङ्गवाः हनुमन्तं महात्मानं परिवार्योपतस्थिरे परिवार्य च ते सर्वे परां प्रीतिमुपागताः
Verse 33
प्रहृष्टवदना स्सर्वे तमरोगमुपागतम् उपायनानि चादाय मूलानि च फलानि च प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम्
Verse 34
हनुमांस्तु गुरून् वृद्धाञ्जाम्बवत्प्रमुखांस्तदा कुमारमङ्गदं चैव सोऽवन्दत महाकपिः
Verse 35
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः दृष्टा सीतेति विक्रान्त स्संक्षेपेण न्यवेदयत्
Verse 36
निषसाद च हस्तेन गृहीत्वा वालिनस्सुतम् रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा
Verse 37
हनुमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान् अशोकवनिकासंस्था दृष्टा सा जनकात्मजा रक्षमाणा सुघोराभी राक्षसीभिरनिन्दिता एकवेणीधरा बाला रामदर्शनलालसा उपवासपरिश्रान्ता जटिला मलिना कृशा
Verse 38
हनुमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान् अशोकवनिकासंस्था दृष्टा सा जनकात्मजा रक्षमाणा सुघोराभी राक्षसीभिरनिन्दिता एकवेणीधरा बाला रामदर्शनलालसा उपवासपरिश्रान्ता जटिला मलिना कृशा
Verse 39
हनुमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान् अशोकवनिकासंस्था दृष्टा सा जनकात्मजा रक्षमाणा सुघोराभी राक्षसीभिरनिन्दिता एकवेणीधरा बाला रामदर्शनलालसा उपवासपरिश्रान्ता जटिला मलिना कृशा
Verse 40
ततो दृष्टेति वचनं महार्थममृतोपमम् निशम्य मारुतेस्सर्वे मुदिता वानराभवन्
Verse 41
क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः चक्रुः किलकिलामन्ये प्रतिगर्जन्ति चापरे
Verse 42
केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः आयताञ्चितदीर्घाणि लाङ्गूलानि प्रविव्यधुः
Verse 43
अपरे च हनूमन्तं वानरा वारणोपमम् आप्लुत्य गिरिशृङ्गेभ्यस्संस्पृशन्ति स्म हर्षिताः
Verse 44
उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम्
Verse 45
सत्त्वे वीर्ये न ते कश्चित्समो वानर विद्यते यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः
Verse 46
अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी दिष्ट्या त्यक्ष्यति काकुत्स्थ श्शोकं सीतावियोगजम्
Verse 47
ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः परिवार्य प्रमुदिता भेजिरे विपुलाश्शिलाः
Verse 48
श्रोतुकामास्समुद्रस्य लङ्घनं वानरोत्तमाः दर्शनं चापि लङ्कायास्सीताया रावणस्य च तस्थुः प्राञ्जलयस्सर्वे हनुमद्वचनोन्मुखाः
Verse 49
श्रोतुकामास्समुद्रस्य लङ्घनं वानरोत्तमाः दर्शनं चापि लङ्कायास्सीताया रावणस्य च तस्थुः प्राञ्जलयस्सर्वे हनुमद्वचनोन्मुखाः
Verse 50
तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः उपास्यमानो विबुधैर्दिवि देवपतिर्यथा
Verse 51
हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गदबद्धबाहुना मुदा तदाऽध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाभवत्
0:000:00
Speed: