Book 5 • Chapter 58
Sarga 58
166 verses
Verse 1
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम्
Verse 2
तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम्
Verse 3
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः
Verse 4
तत्त्वतस्सर्वमेतन्नः प्रब्रूहि त्वं महाकपे श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम्
Verse 5
यश्चार्थस्तत्त्र वक्तव्यो गतैरस्माभिरात्मवान् रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः
Verse 6
स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत
Verse 7
प्रत्यक्षमेव भवतां महेन्द्राग्रात्खामाप्लुतः उदधेर्दक्षिणं पारं काङ्क्षमाण स्समाहितः
Verse 8
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम्
Verse 9
स्थितं पन्धानमावृत्य मेने विघ्नं च तं नगम् उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च
Verse 10
प्रहतं च मया तस्य लाङ्गूलेन महागिरेः शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा
Verse 11
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः 5.58.11 पुत्त्रेति मधुरां वाणीं मनः प्रह्लादयन्निव
Verse 12
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः मैनाकमिति विख्यातं निवसन्तं महोदधौ
Verse 13
पक्षवन्तः पुरा पुत्त्र बभूवुः पर्वतोत्तमाः छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः
Verse 14
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः चिच्छेद भगवान् पक्षान्वज्रेणैषां सहस्रशः
Verse 15
अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे
Verse 16
रामस्य च मया साह्ये वर्तितव्यमरिन्दम रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः
Verse 17
एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः कार्यमावेद्य तु गिरेरुद्यतं च मनो मम तेन चाहमनुज्ञातो मैनाकेन महात्मना
Verse 18
एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः कार्यमावेद्य तु गिरेरुद्यतं च मनो मम तेन चाहमनुज्ञातो मैनाकेन महात्मना
Verse 19
स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता शरीरेण महाशैलः शैलेन च महोदधौ
Verse 20
उत्तमं जवमास्थाय शेषं पन्थानमास्थितः ततोऽहं सुचिरं कालं वेगेनाभ्यागमं पथि
Verse 21
ततः पश्याम्यहं देवीं सुरसां नागमातरम् समुद्रमध्ये सा देवी वचनं मामभाषत
Verse 22
मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे
Verse 23
एवमुक्त स्सुरसया प्राञ्जलिः प्रणतः स्थितः विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम्
Verse 24
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः
Verse 25
तस्य सीता हृता भार्या रावणेन दुरात्मना तस्या स्सङ्काशं दूतोऽहं गमिष्ये रामशासनात्
Verse 26
कर्तुमर्हसि रामस्य साहाय्यं विषये सती अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते
Verse 27
एवमुक्ता मया सा तु सुरसा कामरूपिणी 5.58.27 अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम
Verse 28
एवमुक्तस्सुरसया दशयोजनमायतः ततोर्थगुणविस्तारो बभूवाहं क्षणेन तु
Verse 29
मत्प्रमाणानुरूपं च व्यादितं च मुखं तया तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः
Verse 30
मत्प्रमाणानुरूपं च व्यादितं च मुखं तया तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः
Verse 31
अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः
Verse 32
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् समानय च वैदेहीं राघवेण महात्मना सुखी भव महाबाहो प्रीताऽस्मि तव वानर
Verse 33
ततोऽहं साधु साध्विति सर्वभूतैः प्रशंसितः ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा
Verse 34
छाया मे निगृहीता च न च पश्यामि किंचन सोऽहं विहतवेगस्तु दिशो दश विलोकयन् न किञ्चित्तत्र पश्यामि येन मेऽपहृता गतिः
Verse 35
छाया मे निगृहीता च न च पश्यामि किंचन सोऽहं विहतवेगस्तु दिशो दश विलोकयन् न किञ्चित्तत्र पश्यामि येन मेऽपहृता गतिः
Verse 36
ततो मे बुद्धिरुत्पन्ना किन्नाम गगने मम ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते
Verse 37
अधोभागेन मे दृष्टि श्शोचता पातिता मया ततोऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम्
Verse 38
प्रहस्य च महानादमुक्तोऽहं भीमया तया अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम्
Verse 39
क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः भक्षः प्रीणय मे देहं चिरमाहारवर्जितम्
Verse 40
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः अस्यप्रमाणादधिकं तस्याः कायमपूरयम्
Verse 41
तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे न च मां साधु बुबुधे मम वा विकृतं कृतम्
Verse 42
ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् तस्या हृदयमादाय प्रपतामि नभ:स्थलम्
Verse 43
सा विसृष्टभुजा भीमा पपात लवणाम्भसि मया पर्वतसङ्काशा निकृत्तहृदया सती
Verse 44
शृणोमि खगतानां च सिद्धानां चारणैस्सह राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता
Verse 45
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् गत्वा चाह महध्वानं पश्यामि नगमण्डितम् दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी
Verse 46
अस्तं दिनकरे याते रक्षसां निलयं पुरम् प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः
Verse 47
तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः
Verse 48
जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः
Verse 49
जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः
Verse 50
अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते यस्मात्तस्माद्विजेतासि सर्वरक्षांस्यशेषतः
Verse 51
तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् रावणान्तःपुरगतो न चापश्यं सुमध्यमाम्
Verse 52
तत स्सीतामपश्यंस्तु रावणस्य निवेशने शोकसागरमासाद्य न पारमुपलक्षये
Verse 53
शोचता च मया दृष्टं प्राकारेण समावृतम् काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम्
Verse 54
स प्राकारमवप्लुत्य पश्यामि बहुपादपम् अशोकवनिकामध्ये शिंशुपापादपो महान् तमारुह्य च पश्यामि काञ्चनं कदलीवनम्
Verse 55
अदूरे शिंशुपावृक्षात्पश्यामि वरवर्णिनीम् श्यामां कमलपत्राक्षीमुपवासकृशाननाम् तदेकवासस्संवीतां रजोध्वस्तशिरोरुहाम् शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव
Verse 56
अदूरे शिंशुपावृक्षात्पश्यामि वरवर्णिनीम् श्यामां कमलपत्राक्षीमुपवासकृशाननाम् तदेकवासस्संवीतां रजोध्वस्तशिरोरुहाम् शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव
Verse 57
अदूरे शिंशुपावृक्षात्पश्यामि वरवर्णिनीम् श्यामां कमलपत्राक्षीमुपवासकृशाननाम् तदेकवासस्संवीतां रजोध्वस्तशिरोरुहाम् शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव
Verse 58
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः एकवेणीधरा दीना भर्तृचिन्तापरायणा भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया कथञ्चिन्मृगशाबाक्षी तूर्णमासादिता मया
Verse 59
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः एकवेणीधरा दीना भर्तृचिन्तापरायणा भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया कथञ्चिन्मृगशाबाक्षी तूर्णमासादिता मया
Verse 60
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः एकवेणीधरा दीना भर्तृचिन्तापरायणा भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया कथञ्चिन्मृगशाबाक्षी तूर्णमासादिता मया
Verse 61
तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम् तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः
Verse 62
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् शृणोम्यधिकगम्भीरं रावणस्य निवेशने
Verse 63
ततोऽहं परमोद्विग्नः स्वं रूपं प्रत्यसंहरम् अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः
Verse 64
ततो रावणदाराश्च रावणश्च महाबलः तं देशं समनुप्राप्ता यत्र सीताऽभवत् स्थिता
Verse 65
तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् सङ्कुच्योरूस्तनौ पीनौ बाहुभ्यां परिरभ्य च
Verse 66
वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः त्राणं किञ्चिदपश्यन्तीं वेपमानां तपस्विनीम् तामुवाच दशग्रीवस्सीतां परमदुःखिताम् अवाक्चिराः प्रपतितो बहुमन्यस्व मामिति
Verse 67
वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः त्राणं किञ्चिदपश्यन्तीं वेपमानां तपस्विनीम् तामुवाच दशग्रीवस्सीतां परमदुःखिताम् अवाक्चिराः प्रपतितो बहुमन्यस्व मामिति
Verse 68
यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव
Verse 69
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः उवाच परमक्रुद्धा सीता वचनमुत्तमम्
Verse 70
राक्षसाधम रामस्य भार्याममिततेजसः इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च अवाच्यं वदतो जिह्वा कथं न पतिता तव
Verse 71
किञ्चिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ अपहृत्याऽऽगतः पाप ते नादृष्टो महात्मना
Verse 72
न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे यज्ञीय स्सत्यवादी च रणश्लाघी च राघवः
Verse 73
जानक्या परुषं वाक्यमेवमुक्तो दशाननः जज्वाल सहसा कोपाच्चितास्थ इव पावकः
Verse 74
विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् मैथिलीं हन्तुमारब्ध: स्त्रीभिर्हाहाकृतं तदा
Verse 75
स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः वरा मन्दोदरी नाम तया स प्रतिषेधितः
Verse 76
उक्तश्च मधुरां वाणीं तया स मदनार्दितः सीतया तव किं कार्यं महेन्द्रसमविक्रमः
Verse 77
देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि
Verse 78
ततस्ताभिस्समेताभिर्नारीभिस्स महाबलः प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः
Verse 79
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैस्सुदारुणैः
Verse 80
तृणवद्भाषितं तासां गणयामास जानकी गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम्
Verse 81
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः रावणाय शशंसुस्ताः सीताध्यवसितं महत्
Verse 82
ततस्तास्सहितास्सर्वा निहताशा निरुद्यमाः परिक्षिप्य समन्तात्तां निद्रावशमुपागताः
Verse 83
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता विलप्य करुणं दीना प्रशुशोच सुदुःखिता
Verse 84
तासां मध्यात्समुत्थाय त्रिजटा वाक्यमब्रवीत् आत्मानं खादत क्षिप्रं न सीता विनशिष्यति जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च
Verse 85
तासां मध्यात्समुत्थाय त्रिजटा वाक्यमब्रवीत् आत्मानं खादत क्षिप्रं न सीता विनशिष्यति जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च
Verse 86
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः रक्षसां च विनाशाय भर्तुरस्या जयाय च
Verse 87
अलमस्मात्परित्रातुं राघवाद्राक्षसीगणम् अभियाचाम वैदेहीमेतद्धि मम रोचते
Verse 88
यस्या ह्येवंविधस्स्वप्नो दुःखितायाः प्रदृश्यते सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा
Verse 89
ततस्सा ह्रीमती बाला भर्तुर्विजयहर्षिता अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः
Verse 90
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः
Verse 91
सम्भाषणार्थं च मया जानक्याश्चिन्तितो विधिः इक्ष्वाकूणां हि वंशस्तु ततो मम पुरस्कृतः
Verse 92
श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना
Verse 93
कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गवः का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि
Verse 94
तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रुवं वचः देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः
Verse 95
तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रुवं वचः देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः
Verse 96
तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् भर्त्राहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा
Verse 97
इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि
Verse 98
तदिच्छामि त्वयाऽऽज्ञप्तं देवि किं करवाण्यहम् रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम्
Verse 99
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी आहरावणमुत्साद्य राघवो मां नयत्विति
Verse 100
प्रणम्य शिरसा देवीं महमार्यामनिन्दिताम् राघवस्य मनोह्लादमभिज्ञानमयाचिषम्
Verse 101
अथ मामब्रवीत्सीता गृह्यतामयमुत्तमः मणिर्येन महाबाहू रामस्त्वां बहुमन्यते
Verse 102
इत्युक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् प्रायच्छत्परमोद्विग्ना वाचा मां सन्दिदेशह
Verse 103
ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः
Verse 104
उक्तोऽहं पुनरेवेदं निश्चित्य मनसा तया हनुमन्मम वृत्तान्तं वक्तुमर्हसि राघवे
Verse 105
यथा श्रुत्वैव न चिरात्तावुभौ रामलक्ष्मणौ सुग्रीवसहितौ वीरावुपेयातां तथा कुरु
Verse 106
यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत्
Verse 107
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत उत्तरं च मया दृष्टं कार्यशेषमनन्तरम्
Verse 108
ततोऽवर्धत मे कायस्तदा पर्वतसन्निभः युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे
Verse 109
तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः
Verse 110
मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः ता स्समभ्यागताः क्षिप्रं रावणायाचचक्षिरे
Verse 111
राजस्वनमिदं दुर्गं तव भग्नं दुरात्मना वानरेण ह्यविज्ञाय तव वीर्यं महाबल
Verse 112
दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत्
Verse 113
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः
Verse 114
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् मया तस्मिन्वनोद्देशे परिघेण निषूदितम्
Verse 115
तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः निहतं च महत्सैन्यं रावणायाचचक्षिरे
Verse 116
ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् तत्रस्थान्राक्षसान् हत्वा शतं स्तम्भेन वै पुनः ललामभूतो लङ्कायास्स वै विध्वंसितो मया
Verse 117
ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् राक्षसैर्बहुभिस्सार्धं घोररूपैर्भयानकैः
Verse 118
तं महाबलसम्पन्नं राक्षसं रणकोविदम् परिघेणातिघोरेण सूदयामि सहानुगम्
Verse 119
तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्त्रान्महाबलान् पदातिबलसम्पन्नान् प्रेषयामास रावणः
Verse 120
परिघेणैव तान् सर्वान्नयामि यमसादनम् मन्त्रिपुत्त्रान्हतान्च्छृत्वा समरेऽलघुविक्रमान् पञ्च सेनाग्रगाच्छ्रूरान्प्रेषयामास रावणः
Verse 121
परिघेणैव तान् सर्वान्नयामि यमसादनम् मन्त्रिपुत्त्रान्हतान्च्छृत्वा समरेऽलघुविक्रमान् पञ्च सेनाग्रगाच्छ्रूरान्प्रेषयामास रावणः
Verse 122
तानहं सहसैन्यान्वै सर्वानेवाभ्यसूदयम् ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् बहुभी राक्षसैस्सार्धं प्रेषयामास रावणः
Verse 123
तं तु मन्दोदरीपुत्त्रं कुमारं रणपण्डितम् सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम्
Verse 124
तं तु मन्दोदरीपुत्त्रं कुमारं रणपण्डितम् सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम्
Verse 125
तमक्षमागतं भग्नं निशम्य स दशाननः तत इन्द्रजितं नाम द्वितीयं रावणस्सुतम् व्यादिदेश सुसंकृद्धो बलिनम् युद्धदुर्मदम्
Verse 126
तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् नष्टौजसं रणे कृत्वा परं हर्षमुपागमम्
Verse 127
महतापि महाबाहुः प्रत्ययेन महाबलः प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः
Verse 128
सोऽविषह्यं हि मां बुद्ध्वा स्वं बलं चावमर्दितम् ब्राह्मणास्त्रेण स तु मां प्राबध्नाच्छातिवेगितः
Verse 129
रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः रावणस्य समीपं च गृहीत्वा मामुपानयन्
Verse 130
दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम्
Verse 131
तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो मारुतस्यौरसः पुत्रो वानरो हनुमानहम्
Verse 132
तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो मारुतस्यौरसः पुत्रो वानरो हनुमानहम्
Verse 133
रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् सोऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः
Verse 134
सुग्रीवश्च महातेजास्सत्वां कुशलमब्रवीत् धर्मार्थकामसहितं हितं पथ्यमुवाच च
Verse 135
वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे राघवो रणविक्रान्तो मित्त्रत्वं समुपागतः
Verse 136
तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया
Verse 137
मया च कथितं तस्मै वालिनश्च वधं प्रति तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि
Verse 138
वालिना हृतराज्येन सुग्रीवेण महाप्रभुः चक्रेऽग्निसाक्षिकं सख्यं राघवस्सह लक्ष्मणः
Verse 139
तेन वालिनमुत्पाट्य शरेणैकेन संयुगे वानराणां महाराजः कृतस्स प्लवतां प्रभुः
Verse 140
तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः
Verse 141
क्षिप्रमानीयतां सीता दीयतां राघवाय च यावन्न हरयो वीरा विधमन्ति बलं तव
Verse 142
वानराणां प्रभावो हि न केन विदितः पुरा देवतानां सङ्काशं च ये गच्छन्ति निमन्त्रिताः
Verse 143
इति वानरराजस्त्वामाहेत्यभिहितो मया मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव
Verse 144
तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा मत्प्रभावमविज्ञाय रावणेन दुरात्मना
Verse 145
ततो विभीषणो नाम तस्य भ्राता महामतिः तेन राक्षसराजोऽसौ याचितो मम कारणात्
Verse 146
नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया
Verse 147
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस दूतेन वेदितव्यं च यथार्थं हितवादिना
Verse 148
सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः विरूपकरणं दृष्टं न वधोऽस्तीति शास्त्रतः
Verse 149
विभीषणेनैवमुक्तो रावणस्सन्दिदेश तान् राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति
Verse 150
ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः
Verse 151
राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः तदाऽदह्यन्त मे पुच्छं निघ्नन्त: काष्ठमुष्टिभिः बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः
Verse 152
ततस्ते राक्षसाश्शूरा बद्धं मामग्निसंवृतम् अघोषयन्राजमार्गे नगरद्वारमागताः
Verse 153
ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्
Verse 154
ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्
Verse 155
ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः
Verse 156
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते लङ्कायां कश्चिदुद्धेशः सर्वा भस्मीकृता पुरी
Verse 157
दहता च मया लङ्कां दग्धा सीता न संशयः रामस्य हि महत्कार्यं मयेदं वितथीकृतम्
Verse 158
इति शोकसमाविष्टश्चिन्तामहमुपागतः अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् जानकी न च दग्धेति विस्मयोदन्तभाषिणाम्
Verse 159
इति शोकसमाविष्टश्चिन्तामहमुपागतः अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् जानकी न च दग्धेति विस्मयोदन्तभाषिणाम्
Verse 160
ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् अदग्धा जानकीत्येवं निमित्तैश्चोपलक्षिता
Verse 161
दीप्यमाने तु लाङ्गूले न मां दहति पावकः हृदयं च प्रहृष्टं मे वातास्सुरभिगन्धिनः
Verse 162
तैर्निमित्तैश्च दृष्टाथै: कारणैश्च महागुणैः ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः
Verse 163
पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः प्रतिप्लवनमारेभे युष्मद्धर्शनकांक्षया
Verse 164
ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् पन्थानमहमाक्रम्य भवतो दृष्टवानिह
Verse 165
राघवस्य प्रभावेण भवतां चैव तेजसा सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम्
Verse 166
एतत्सर्वं मया तत्र यथावदुपपादितम् अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति
0:000:00
Speed: