Book 5 • Chapter 59
Sarga 59
36 verses
Verse 1
एतदाख्याय तत्सर्वं हनुमान्मारुतात्मजः भूयस्समुपचक्राम वचनं वक्तुमुत्तरम्
Verse 2
सफलो राघवोद्योग स्सुग्रीवस्य च सम्भ्रमः शीलमासाद्य सीताया मम च प्रवणं मनः
Verse 3
तपसा निर्दहेल्लोकान्क्रुद्धो वा निर्दहेदपि सर्वधातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः 5.59.3
Verse 4
तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती जनकस्यात्मजा कुर्याद्यत्क्रोधकलुषीकृता
Verse 5
जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् अस्मिन्नेवं गते कार्ये भवतां च निवेदिते न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ
Verse 6
जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् अस्मिन्नेवं गते कार्ये भवतां च निवेदिते न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ
Verse 7
अहमेकोऽपि पर्याप्तस्सराक्षसगणां पुरीम् तां लङ्कां तरसा हन्तुं रावणं च महाबलम्
Verse 8
किं पुन स्सहितो वीरैर्बलवद्भिः कृतात्मभिः कृतास्त्रै: प्लवगैश्शूरैर्भवद्भिविजयैषिभिः
Verse 9
अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम् सहपुत्त्रं वधिष्यामि सहोदरयुतं युधि
Verse 10
ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारणं तथा यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणि संयुगे तान्यहं वधिष्यामि हनिष्यामि च राक्षसान्
Verse 11
भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान्
Verse 12
भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान्
Verse 13
सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि न जाम्बवन्तं समरे कम्पयेदरिवाहिनी
Verse 14
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः अलमेको विनाशाय वीरो वालिसुतः कपिः
Verse 15
पनसस्योरुवेगेन नीलस्य च महात्मनः मन्दरोऽप्यवशीर्येत किंपुनर्युधि राक्षसाः 5.59.15
Verse 16
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा
Verse 17
अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ एतयोः प्रतियोद्दारं न पश्यामि रणाजिरे
Verse 18
पितामहवरोत्सेकात्परमं दर्पमास्थितौ अमृतप्राशिनावेतौ सर्ववानरसत्तमौ
Verse 19
अश्विनोर्माननार्थं हि सर्वलोकपितामहः सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा
Verse 20
वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ
Verse 21
एतावेव हि सङ्कृद्धौ सवाजिरथकुञ्जराम् लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः
Verse 22
मयैव निहता लङ्का दग्धा भस्मीकृता पुनः राजमार्गेषु सर्वत्र नाम विश्रावितं मया
Verse 23
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः राजा जयति सुग्रीवो राघवेणाभिपालितः अहं कोसलराजस्य दासः पवनसम्भवः हनुमानिति सर्वत्र नाम विश्रावितं मया
Verse 24
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः राजा जयति सुग्रीवो राघवेणाभिपालितः अहं कोसलराजस्य दासः पवनसम्भवः हनुमानिति सर्वत्र नाम विश्रावितं मया
Verse 25
अशोकवनिकामध्ये रावणस्य दुरात्मनः अध स्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता राक्षसीभिः परिवृता शोकसंतापकर्शिता मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा अचिन्तयन्ती वैदेही रावणं बलदर्पितम्
Verse 26
अशोकवनिकामध्ये रावणस्य दुरात्मनः अध स्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता राक्षसीभिः परिवृता शोकसंतापकर्शिता मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा अचिन्तयन्ती वैदेही रावणं बलदर्पितम्
Verse 27
पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा अनन्यचित्ता रामे च पौलोमीव पुरन्दरे
Verse 28
पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा अनन्यचित्ता रामे च पौलोमीव पुरन्दरे
Verse 29
तदेकवासस्संवीता रजोध्वस्ता तथैव च शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता
Verse 30
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने एकवेणीधरा दीना भर्तृचिन्तापरायणा अधश्शय्या विवर्णाङ्गी पद्मिनीव हिमागमे रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया
Verse 31
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने एकवेणीधरा दीना भर्तृचिन्तापरायणा अधश्शय्या विवर्णाङ्गी पद्मिनीव हिमागमे रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया
Verse 32
कथञ्चिन्मृगशाबाक्षी विश्वासमुपपादिता ततः संभाषिता चैव सर्वमर्थं च दर्शिता रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता
Verse 33
कथञ्चिन्मृगशाबाक्षी विश्वासमुपपादिता ततः संभाषिता चैव सर्वमर्थं च दर्शिता रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता
Verse 34
नियतस्समुदाचारो भक्तिर्भर्तरि चोत्तमा यन्न हन्ति दशग्रीवं सा महात्मा कृतागसम्
Verse 35
निमित्तमात्रं रामस्तु वधे तस्य भविष्यति सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता प्रतिपत्पाठशीलस्य विद्येव तनुमतां गता
Verse 36
एवमास्ते महाभागा सीता शोकपरायणा यदत्र प्रतिकर्तव्यं तत्सर्वमुपपाद्यताम्
0:000:00
Speed: