Book 5 • Chapter 60
Sarga 60
6 verses
Verse 1
तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः समीपं गन्तुमस्माभी राघवस्य महात्मनः
Verse 2
दृष्टा देवी न चानीता इति तत्र निवेदनम् अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः
Verse 3
न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे तुल्य स्सामरदैत्येषु लोकेषु हरिसत्तमाः
Verse 4
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम्
Verse 5
तमेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः उवाच परमप्रीतो वाक्यमर्थवदर्थवित्
Verse 6
न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धिम्
0:000:00
Speed: