Book 5 • Chapter 61
Sarga 61
23 verses
Verse 1
ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः अङ्गदप्रमुखा वीरा हनुमांश्च महाकपिः
Verse 2
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपरस्पराः महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः मेरुमन्दरसङ्काशा मत्ता इव महागजाः छादयन्त इवाकाशं महाकाया महाबलाः सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् हनूमन्तं महावेगं वहन्त इव दृष्टिभिः राघवे चार्थनिर्ववृत्तिं कर्तुं च परमं यशः समाधाय समृद्धार्थाः सर्वेसिद्धिभिरुन्नता प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः सर्वे रामप्रतीकारे निश्चितार्था मनस्स्विनः
Verse 3

Verse 4

Verse 5

Verse 6

Verse 7
प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः नन्दनोपमयासेदुर्वनं द्रुमलतायुतम्
Verse 8
यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्
Verse 9
यद्रक्षति महावीर्य स्सदा दधिमुखः कपिः मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः
Verse 10
ते तद्वनमुपागम्य बभूवुः परमोत्कटाः वानरा वानरेन्द्रस्य मनः कान्ततमं महत्
Verse 11
ततस्ते वानरा हृष्टा दृष्टवा मधुवनं महत् कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः
Verse 12
ततः कुमारस्तान् वृद्धान् जाम्बवत्प्रमुखान् कपीन् अनुमान्य ददौ तेषां विसर्गं मधुभिक्षणे
Verse 13
ततश्चानुमता स्सर्वे सम्प्रहृष्टा वनौकसः मुदिताः प्रेरिताश्चापि प्रनृत्यन्तोऽभवंस्तदा
Verse 14
गायन्ति केचित्प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित् पतन्ति केचिद्विचरन्ति केचित्ल्पवन्ति केचित्प्रलपन्ति केचित्
Verse 15
परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते
Verse 16
द्रुमाद्द्रुमं केचिदभिद्रवन्ते क्षितौ नगाग्रान्निपतन्ति केचित् महीतलात्केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति
Verse 17
गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नुपैति
Verse 18
समाकुलं तत्कपिसैन्यमासीन्मधुप्रसानोत्कटसत्त्वचेष्टम् न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः
Verse 19
ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् समीक्ष्य कोपाद्धधिवक्रनामा निवारयामास कपिः कपींस्तान्
Verse 20
स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः
Verse 21
उवाच कांश्चित्परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जघान समेत्य कैश्चित्कलहं चकार तथैव साम्नोपजगाम कांश्चित्
Verse 22
स तैर्मदात्संपरिवार्य वाक्यैर्भलाच्छ तेन प्रतिवार्यमाणैः प्रधर्षितस्त्यक्तभयै स्समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम्
Verse 23
नखैस्तुदन्तो दशनैर्दशन्त स्तलैश्च पादैश्च समापयन्तः मदात्कपिं तं कपय स्समग्रा महावनं निर्विषयं च चक्रुः
0:000:00
Speed: