🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 62

Sarga 62

39 verses

Verse 1
तानुवाच हरिश्रेष्ठो हनुमान्वानरर्षभः अव्यग्रमनसो यूयं मधु सेवत वानराः अहमावारयिष्यामि युष्माकं परिपन्थिनः
Verse 2
श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु
Verse 3
अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम्
Verse 4
अङ्गदस्य मुखाच्छ्रुत्वावचनं वानरर्षभाः साधुसाध्विति संहृष्टा वानराः प्रत्यपूजयन्
Verse 5
पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् जग्मुर्मधुवनं यत्र नदीवेग इव द्रुमम्
Verse 6
ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा  मैथिलीम् पपुस्सर्वे मधु तदा रसवत्फलमाददुः
Verse 7
ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा  मैथिलीम् पपुस्सर्वे मधु तदा रसवत्फलमाददुः
Verse 8
उत्पत्य  ततस्सर्वे वनपालान् समागतान् ताडयन्ति स्म शतश स्सक्तान्मधुवने तदा
Verse 9
मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते पिबन्ति सहिता स्सर्वे निघ्नन्ति स्म तथापरे
Verse 10
केचित्पीत्वा प्रविध्यन्ति मधूनि मधुपिङ्गलाः मधूच्छिष्टेन केचिच्च जग्मुरन्योन्यमुत्कटाः
Verse 11
अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः अत्यर्थं  मदग्लानाः पर्णान्यास्तीर्य शेरते
Verse 12
उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् क्षिपन्ति  तथान्योन्यं स्खलन्ति  तथाऽपरे
Verse 13
केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत् हरयोमधुना मत्ताः केचित्सुप्ता महीतले
Verse 14
कृत्वा केचिद्धसन्त्यन्ये केचित्कुर्वन्ति चेतरत् कृत्वा केचिद्वदन्त्यन्ये केचिद्बुध्यन्ति चेतरत्
Verse 15
येऽप्यत्र मधुपाला स्स्युः प्रेष्या दधिमुखस्य तु तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः
Verse 16
जानुभिस्तु प्रकृष्टाश्च देवमार्गं प्रदर्शिताः अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः
Verse 17
हनूमता दत्तवरैर्हतं मधुवनं बलात् वयं  जानुभिः कृष्टा देवमार्गं  दर्शिताः
Verse 18
ततो दधिमुख: क्रुद्धो वनपस्तत्र वानरः हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन्
Verse 19
इहागच्छत गच्छामो वानरान् बलदर्पितान् बलेन वारयिष्यामो मधु भक्षयतो वयम्
Verse 20
श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः पुनर्वीरा मधुवनं तेनैव सहसा ययुः
Verse 21
मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम् समभ्यधावद्वेगेन ते  सर्वे प्लवङ्गमाः
Verse 22
ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः गृहीत्वाऽऽभ्यगमन् क्रुद्धा यत्र ते कपिकुञ्जराः
Verse 23
ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः
Verse 24
वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान् अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः
Verse 25
अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा
Verse 26
तं सवृक्षं महाबाहुमापतन्तं महाबलम् आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः
Verse 27
मदान्धश्च  वेदैनमार्यकोऽयं ममेति सः अथैनं निष्पिपेषाशु वेगवद्वसुधातले
Verse 28
 भग्नबाहूरुभुजो विह्वलश्शोणितोक्षितः मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः
Verse 29
 समाश्वस्य सहसा सङ्कृद्धो राजमातुलः वानरान्वारयामास दण्डेन मधुमोहितान्
Verse 30
 कथञ्चिद्विमुक्तस्स्तैर्वानरैर्वानरर्षभः उवाचैकान्तमाश्रित्य भृत्यान् स्वान् समुपागतान्
Verse 31
एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति
Verse 32
सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्
Verse 33
इष्टं मधुवनं ह्येतत्पार्थिवस्य महात्मनः पितृपैतामहं दिव्यं देवैरपि दुरासदम्
Verse 34
 वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः घातयिष्यति दण्डेन सुग्रीवस्ससुहृज्जनान्
Verse 35
वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः अमर्षप्रभवो रोषस्सफलो नो भविष्यति
Verse 36
एवमुक्त्वा दधिमुखो वनपालान्महाबलः जगाम सहसोत्पत्य वनपालैस्समन्वितः
Verse 37
निमेषान्तरमात्रेण  हि प्राप्तो वनालयः सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः
Verse 38
रामं  लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव  समप्रतिष्ठां जगतीमाकाशान्निपपात 
Verse 39
सन्निपत्य महावीर्यस्सर्वैस्तै: परिवारितः हरिर्दधिमुखः पालैः पालानां परमेश्वरः  दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् सुग्रीवस्य शुभौ मूर्ध्ना चरणौ पत्यपीडयत्
0:000:00
Speed: