🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 63

Sarga 63

29 verses

Verse 1
ततो मूर्ध्ना निपतितं वानरं वानरर्षभः दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच 
Verse 2
उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम अभयं ते भवेद्वीर सर्वमेवाभिधीयताम्
Verse 3
 तु विश्वासितस्तेन सुग्रीवेण महात्मना उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत्
Verse 4
नैवर्क्षरजसा राजन्न त्वया नापि वालिना वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः
Verse 5
एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति 
Verse 6
शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे निवार्यमाणास्ते सर्वे भ्रुवो वै दर्शयन्ति हि
Verse 7
इमे हि संरब्धतरास्तथा तैस्सम्प्रधर्षिताः वारयन्तो वनात्तस्मात्क्रुद्धैर्वानरपुङ्गवैः
Verse 8
ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभ संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः
Verse 9
पाणिभिर्निहताः केचित्केचिज्जानुभिराहताः प्रकृष्टाश्च यथाकामं देवमार्गं  दर्शिताः
Verse 10
एवमेते हताश्शूरास्त्वयि तिष्ठति भर्तरि कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते
Verse 11
एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा
Verse 12
किमयं वानरो राजन् वनपः प्रत्युपस्थितः कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत्
Verse 13
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः
Verse 14
आर्य लक्ष्मण सम्प्राह वीरो दधिमुखः कपिः अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः
Verse 15
नैषामकृत्यानामीदृशस्स्यादुपक्रमः आगतैश्च प्रमथितं यथा मधुवनं हि तैः धर्षितं  वनं कृत्स्नमुपयुक्तं  वानरैः
Verse 16
नैषामकृत्यानामीदृशस्स्यादुपक्रमः आगतैश्च प्रमथितं यथा मधुवनं हि तैः धर्षितं  वनं कृत्स्नमुपयुक्तं  वानरैः
Verse 17
वनं यदाऽभिपन्नास्ते साधितं कर्म वानरैः दृष्टा देवी  सन्देहो  चान्येन हनूमता
Verse 18
 ह्यन्यस्साधने हेतुः कर्मणोऽस्य हनूमतः कार्यसिद्धिर्मतिश्चैव तस्मिन्वानरपुङ्गवे व्यवसायश्च वीर्यं  श्रुतं चापि प्रतिष्ठितम्
Verse 19
जाम्बवान्यत्र नेता स्यादङ्गदश्च महाबलः हनुमांश्चाप्यधिष्ठाता  तस्य गतिरन्यथा
Verse 20
अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल वारयन्तश्च सहितास्तदा जानुभिराहताः
Verse 21
एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः
Verse 22
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः अभिगम्य तथा सर्वे पिबन्ति मधु वानराः
Verse 23
 चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः
Verse 24
ततः प्रहृष्टो धर्मात्मा लक्ष्मणस्सह राघवः श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः
Verse 25
ततः प्रहृष्टो धर्मात्मा लक्ष्मणस्सह राघवः श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः
Verse 26
श्रुत्वा दधिमुखस्येदं सुग्रीवस्सम्प्रहृष्य  वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत
Verse 27
प्रीतोऽस्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः मर्षितं मर्षणीयं  चेष्टितं कृतकर्मणाम्
Verse 28
इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान् मृगराजदर्पान् द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं  सीताधिगमे प्रयत्नम्
Verse 29
प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां  राजा अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सोऽतिमात्रं ननन्द
0:000:00
Speed: