Book 5 • Chapter 64
Sarga 64
39 verses
Verse 1
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत्
Verse 2
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ वानरैः सहितः शूरैर्दिवमेवोत्पपात ह
Verse 3
स यथैवाऽगतः पूर्वं तथैव त्वरितं गतः निपत्य गगनाद्भूमौतद्वनं प्रविवेश ह स प्रविष्टो मधुवनं ददर्श हरियूथपान् विमदानुत्थितान्सर्वान् मेहमानान्मधूदकम्
Verse 4
स यथैवाऽगतः पूर्वं तथैव त्वरितं गतः निपत्य गगनाद्भूमौतद्वनं प्रविवेश ह स प्रविष्टो मधुवनं ददर्श हरियूथपान् विमदानुत्थितान्सर्वान् मेहमानान्मधूदकम्
Verse 5
स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम्
Verse 6
सौम्य रोषो न कर्तव्यो यदेतत्परिवारितम् अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः
Verse 7
युवराजस्त्वमीशश्च वनस्यास्य महाबल मौर्ख्यात्पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति
Verse 8
आख्यातं हि मया गत्वा पितृव्यस्य तवानघ इहोपयातं सर्वेषामेतेषां वनचारिणाम्
Verse 9
स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम्
Verse 10
प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः
Verse 11
श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमङ्गदः अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः
Verse 12
शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः
Verse 13
पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः
Verse 14
सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम्
Verse 15
नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया
Verse 16
ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमव्ययम् प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः
Verse 17
एवं वक्ष्यति को राजन् प्रभुस्सन्वानरर्षभ ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते
Verse 18
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम्
Verse 19
सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः
Verse 20
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते
Verse 21
एवं तु वदतां तेषामङ्गदः प्रत्युवाच ह बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः
Verse 22
उत्पतन्तमनूत्पेतु स्सर्वे ते हरियूथपाः कृत्वाकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः
Verse 23
तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः विनदन्तो महानादं घना वातेरिता यथा
Verse 24
अङ्गदे ह्यननुप्राप्ते सुग्रीवो वानराधिपः उवाच शोकोपहतं रामं कमललोचनम्
Verse 25
समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः नागन्तुमिह शक्यं तैरतीते समये हि नः
Verse 26
न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः
Verse 27
यद्यप्यकृतकृत्यानामीदृश स्स्यादुपक्रमः भवेत्स दीनवदनो भ्रान्तविप्लुतमानसः
Verse 28
पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम् न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः कौसल्यासुप्रजा राम समाश्वसिहि सुव्रत
Verse 29
दृष्टा देवी न सन्देहो न चान्येन हनूमता न ह्यन्यः कर्मणो हेतुस्साधनेऽस्य हनूमतः
Verse 30
हनूमति हि सिद्धिश्च मतिश्च मतिसत्तमः व्यवसायश्च वीर्यं च सूर्ये तेज इव ध्रुवम्
Verse 31
जाम्बवान्यत्र नेता स्यादङ्गदश्च बलेश्वरः हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा
Verse 32
मा भूश्चिन्तासमायुक्तस्सम्प्रत्यमितविक्रमः ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे हनुमत्कर्मदृप्तानां नार्धतां काननौकसाम् किष्किन्धामुपयातानां सिद्धिं कथयतामिव
Verse 33
मा भूश्चिन्तासमायुक्तस्सम्प्रत्यमितविक्रमः ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे हनुमत्कर्मदृप्तानां नार्धतां काननौकसाम् किष्किन्धामुपयातानां सिद्धिं कथयतामिव
Verse 34
ततश्श्रुत्वा निनादं तं कपीनां कपिसत्तमः आयताञ्चितलाङ्गूलस्सोऽभवद्धृष्टमानसः
Verse 35
आजग्मुस्तेऽपि हरयो रामदर्शनकांक्षिणः अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्
Verse 36
तेऽङ्गदप्रमुखा वीराः प्रहृष्ठाश्च मुदान्विताः निपेतुर्हरिराजस्य समीपे राघवस्य च
Verse 37
हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः नियतामक्षतां देवीं राघवाय न्यवेदयत्
Verse 38
दृष्टा देवीति हनुमद्वदनादमृतोपमम् आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः
Verse 39
निश्चितार्थं ततस्तस्मिन् सुग्रीवं पवनात्मजे लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत
0:000:00
Speed: