Book 5 • Chapter 65
Sarga 65
27 verses
Verse 1
ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः
Verse 2
ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः
Verse 3
रावणान्तः पुरे रोधं राक्षसीभिश्च तर्जनम् रामे समनुरागं च यश्चायं समयः कृतः एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ
Verse 4
वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् क्व सीता वर्तते देवी कथं च मयि वर्तते एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः
Verse 5
वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् क्व सीता वर्तते देवी कथं च मयि वर्तते एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः
Verse 6
रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम्
Verse 7
श्रुत्वा तु वचनं तेषां हनुमान्मारुतात्मजः प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति उवाच वाक्यं वाक्यज्ञस्सीताया दर्शनं यथा
Verse 8
समुद्रं लङ्घयित्वाहं शतयोजनमायतम् अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया
Verse 9
तत्र लङ्केति नगरी रावणस्य दुरात्मनः दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे
Verse 10
तत्र दृष्टा मया सीता रावणान्तः पुरे सती सन्न्यस्य त्वयि जीवन्ती रामा राम मनोरथम्
Verse 11
दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने
Verse 12
दुःख मासाद्यते देवी तथाऽदुःखोचिता सती रावणान्तः पुरे रुद्धा राक्षसीभि स्सुरक्षिता एकवेणीधरा दीना त्वयि चिन्तापरायणा अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया देवी कथञ्चित्काकुत्स्थ त्वन्मना मार्गिता मया
Verse 13

Verse 14

Verse 15
इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ सा मया नरशार्दूल विश्वासमुपपादिता
Verse 16
तत स्सम्भाषिता देवी सर्वमर्थं च दर्शिता रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता नियत स्समुदाचारो भक्तिश्चास्यास्तथा त्वयि
Verse 17
तत स्सम्भाषिता देवी सर्वमर्थं च दर्शिता रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता नियत स्समुदाचारो भक्तिश्चास्यास्तथा त्वयि
Verse 18
एवं मया महाभागा दृष्टा जनकनन्दिनी उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ
Verse 19
अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके चित्रकूटे महाप्राज्ञ वायसं प्रति राघव
Verse 20
विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया अखिलेनेह यद्धृष्टमिति मामाह जानकी
Verse 21
अयं चास्मै प्रदातव्यो यत्नात्सुपरिरक्षितः ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः
Verse 22
एष चूडामणिश्श्रीमान् मया सुपरिरक्षितः मनश्शिलायास्तिलको गण्डपार्श्वे निवेशितः त्वया प्रणष्ठे तिलके तं किल स्मर्तुमर्हसि
Verse 23
एष निर्यातितश्श्रीमान्मया ते वारि सम्भवः एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ
Verse 24
जीवितं धारयिष्यामि मासं दशरथात्मज ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता
Verse 25
इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी रावणान्तः पुरे रुद्धा मृगीवोत्फुल्ललोचना
Verse 26
एतदेव मयाख्यातं सर्वं राघव यद्यथा सर्वथा सागरजले संतारः प्रविधीयताम्
Verse 27
तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा सम्पूर्णं वायुपुत्त्र श्शशंस
0:000:00
Speed: