Book 5 • Chapter 66
Sarga 66
15 verses
Verse 1
एवमुक्तो हनुमता रामो दशरथात्मज: तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः
Verse 2
तं तु दृष्ट्वा मणिश्रेष्ठं राघव श्शोककर्शितः नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत्
Verse 3
यथैव धेनु स्स्रवति स्नेहाद्वत्सस्य वत्सला तथा ममापि हृदयं मणिरत्नस्य दर्शनात्
Verse 4
मणिरत्नमिदं दत्तं वैदेह्याश्श्वशुरेण मे वधूकाले यथाबद्धमधिकं मूर्ध्नि शोभते
Verse 5
अयं हि जलसम्भूतो मणिस्सज्जनपूजितः यज्ञे परमतुष्टेन दत्तश्शक्रेण धीमता
Verse 6
इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् अद्यास्म्यवगतस्सौम्य वैदेहस्य तथा विभोः
Verse 7
अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः अस्याद्य दर्शने नाहं प्राप्तां तामिव चिन्तये
Verse 8
किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः पिपासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा
Verse 9
इतस्तु किं दुःखतरं यदिमं वारिसम्भवम् मणिं पश्यामि सौमित्रे वैदेहीमागतां विना
Verse 10
चिरं जीवति वैदेही यदि मासं धरिष्यति क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम्
Verse 11
नय मामपि तं देशं यत्र दृष्टा मम प्रिया न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च
Verse 12
कथं सा मम सुश्रोणी भीरुभीरु स्सती सदा भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम्
Verse 13
शारद स्तिमिरोन्मुक्तो नूनं चन्द्रं इवांबुधैः आवृतं वदनं तस्या न विराजति राक्षसैः
Verse 14
किमाह सीता हनुमंस्तत्त्वतः कथयाद्य मे एतेन खलु जीविष्ये भेषजेनातुरो यथा
Verse 15
मधुरा मधुरालापा किमाह मम भामिनी मद्विहीना वरारोहा हनुमन् कथयस्व मे
0:000:00
Speed: