🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 67

Sarga 67

16 verses

Verse 1
एवमुक्तस्तु हनुमान् राघवेण महात्मना सीताया भाषितं सर्वं न्यवेदयत राघवे
Verse 2
इदमुक्तवती देवी जानकी पुरुषर्षभ पूर्व वृत्तमभिज्ञानं चित्रकूटे यथातथम्
Verse 3
सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता वायस स्सहसोत्पत्य विददार स्तनान्तरे
Verse 4
पर्यायेण  सुप्तस्त्वं देव्यङ्के भरताग्रज पुनश्च किल पक्षी  देव्या जनयति व्यथाम्
Verse 5
पुनः पुनरुपागम्य विददार भृशं किल ततस्त्वं बोधितस्तस्याश्शोणितेन समुक्षितः
Verse 6
वायसेन  तेनैव सततं बाध्यमानया बोधितः किल देव्या त्वं सुखसुप्तः परन्तप
Verse 7
तां तु दृष्ट्वा महाबाहो दारितां  स्तनान्तरे आशीविष इव क्रुद्धो निश्वसन्नभ्यभाषथाः
Verse 8
नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना
Verse 9
निरीक्षमाणस्सहसा वायसं समवैक्षथाः नखै स्सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम्
Verse 10
सुतः किल  शक्रस्य वायसः पततां वरः धरान्तरचरश्शीघ्रं पवनस्य गतौ समः
Verse 11
ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर
Verse 12
 दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण ह्ययोजयः  दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम्
Verse 13
क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति ततस्तु वायसं दीप्तस्स दर्भोऽनुजगाम 
Verse 14
 पित्रा  परित्यक्तस्सुरैश्च समहर्षिभिः त्रीन् लोकान् सम्परिक्रम्य त्रातारं नाधिगच्छति
Verse 15
पुनरेवागतस्त्रस्तस्त्वत्सकाशमरिंदम  तं निपतितं भूमौ शरण्यश्शरणागतम् वधार्हमपि काकुत्स्थ कृपया पर्यपालयः
Verse 16
मोघमस्त्रं  शक्यं तु कर्तुमित्येव राघव भवांस्तस्याक्षि काकस्य हिनस्ति स्म  दक्षिणम्
0:000:00
Speed: