Book 5 • Chapter 68
Sarga 68
29 verses
Verse 1
अथाहमुत्तरं देव्या पुनरुक्त स्ससम्भ्रमम् तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै
Verse 2
एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे
Verse 3
यदि वा मन्यसे वीर वसैकाहमरिन्दम कस्मिंश्चित्संवृते देशे विक्रान्तश्श्वो गमिष्यसि
Verse 4
मम चाप्यल्पभाग्यायास्सान्निध्यात्तव वीर्यवन् अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम्
Verse 5
गते हि त्वयि विक्रान्ते पुनरागमनाय वै प्राणानामपि सन्देहो मम स्यान्नात्र संशयः
Verse 6
तवादर्शनजश्शोको भूयो मां परितापयेत् दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम्
Verse 7
अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर
Verse 8
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
Verse 9
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने शक्तिस्स्याद्वैनतेयस्य तव वा मारुतस्य वा
Verse 10
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे किं पश्यसि समाधानं ब्रूहि कार्यविदां वरः
Verse 11
काममस्य त्वमेवैकः कार्यस्य परिसाधने पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः
Verse 12
बलै स्समग्रैर्यदि मां हत्वा रावणमाहवे विजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम्
Verse 13
यथाऽहं तस्य वीरस्य वनादुपधिना हृता रक्षसा तद्भयादेव तथा नार्हति राघवः
Verse 14
बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्
Verse 15
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः भवेदाहवशूरस्य तथा त्वमुपपादय
Verse 16
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् निशम्याहं तत श्शेषं वाक्यमुत्तरमब्रुवम्
Verse 17
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः सुग्रीवस्सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः
Verse 18
तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः मन स्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः
Verse 19
येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः न च कर्मसु सीदन्ति महत्स्वमिततेजसः
Verse 20
असकृत्तैर्महाभागैर्वानरैर्बलदर्पितैः प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः
Verse 21
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ
Verse 22
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः न हि प्रकृष्टाः प्रेत्यन्ते प्रेष्यन्ते हीतरे जनाः
Verse 23
तदलं परितापेन देवि मन्युर्व्यपैतु ते एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः
Verse 24
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः
Verse 25
अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम् लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम्
Verse 26
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् वानरान्वारणोन्द्राभान् क्षिप्रं द्रक्षसि सङ्गतान् शैलाम्बुदनिकाशानां लङ्कामलयसानुषु नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम्
Verse 27
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् वानरान्वारणोन्द्राभान् क्षिप्रं द्रक्षसि सङ्गतान् शैलाम्बुदनिकाशानां लङ्कामलयसानुषु नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम्
Verse 28
निवृत्तवनवासं च त्वया सार्धमरिन्दमम् अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम्
Verse 29
ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तदाभिपीडिता
0:000:00
Speed: