Book 5 • Chapter 7
Sarga 7
17 verses
Verse 1
स वेश्मजालं बलवान् ददर्श व्यासक्तवैडूर्यसुवर्णजालम् यथा महत् प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्गजालम्
Verse 2
निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः मनोहराश्चापि पुनर्विशालाः ददर्श वेश्माद्रिषु चन्द्रशालाः
Verse 3
गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि
Verse 4
तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गृहाणि
Verse 5
ततो ददर्शोछ्रचितमेघरूपं मनोहरं काञ्चनचारुरूपम् रक्षोऽधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम्
Verse 6
महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम् नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम्
Verse 7
नारीप्रवेकैरिव दीप्यमानं तटिद्भिरम्भोदवदर्च्यमानम् हंसप्रवेकैरिव वाह्यमानं श्रिया युतं खे सुकृतां विमानम्
Verse 8
यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम् ददर्शयुक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम्
Verse 9
मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्रपूर्णम्
Verse 10
कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पाण्यपि पुष्कराणि पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि
Verse 11
पुष्पाह्वयं नामविराजमानं रत्नप्रभाभिश्च विवर्धमानम् वेश्मोत्तमानामपि चोच्यमानं महाकपिस्तत्र महाविमानम्
Verse 12
कृताश्च वैडूर्यमया विहङ्गाः रूप्यप्रवालैश्च तथा विहङ्गाः चित्राश्च नानावसुभिर्भुजङ्गाः जात्यानुरूपास्तुरगाः शुभाङ्गाः
Verse 13
प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः
Verse 14
नियुज्यमानास्तु गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः बभूवदेवी च कृता सुहस्ता लक्ष्मी स्तथा पद्मिनि पद्महस्ता
Verse 15
इतीव तद्गृहमभिगम्य शोभनम् सविस्मयो नगमिव चारुशोभनम् पुनश्च तत्परमसुगन्धि सुन्दरम् हिमात्यये नगमिव चारुकन्दरम्
Verse 16
ततः स तां कपिरभिपत्य पूजितां चरन् पुरीं दशमुखबाहुपालिताम् अदृश्य तां जनकसुतां सुपूजितां सुदुःखितः पतिगुणवेगवर्जिताम्
Verse 17
ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः अपश्यतोऽभवदतिदुःखितं मनः सुचक्षुषः प्रविचरतो महात्मनः
0:000:00
Speed: