Book 5 • Chapter 8
Sarga 8
7 verses
Verse 1
स तस्य मध्ये भवनस्य संस्थितं महद्विमानं मणिवज्रचित्रितम् प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श वीरः पवनात्मजः कपिः
Verse 2
तदप्रमेयाप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा दिवं गतं वायुपथप्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत्
Verse 3
न तत्र किञ्चिन्न कृतं प्रयत्नतो न तत्र किञ्चिन्न महार्हरत्नवत् न ते विशेषा नियताः सुरेष्वपि न तत्र किञ्चिन्न महाविशेषवत्
Verse 4
तपः समाधानपराक्रमार्जितं मनः समाधानविचारचारिणम् अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम्
Verse 5
विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम् मनोऽभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा
Verse 6
वहन्ति यं कुण्डलशोभिताननाः महाशना व्योमचरा निशाचराः विवृत्तविध्वस्तविशाललोचनाः महाजवा भूतगणाः सहस्रशः
Verse 7
वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि कान्तदर्शनम् स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः
0:000:00
Speed: