Book 5 • Chapter 9
Sarga 9
73 verses
Verse 1
तस्यालयवरिष्ठस्य मध्ये विपुलमायतं ददर्श भवनश्रेष्ठं हनुमान्मारुतात्मजः
Verse 2
अर्धयोजनविस्तीर्णमायतं योजनं हि तत् भवनं राक्षसेन्द्रस्य बहुप्रासादसङ्कुलम्
Verse 3
मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् सर्वतः परिचक्राम हनूमानरिसूदनः
Verse 4
उत्तमं राक्षसावासं हनुमानवलोकयन् आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च परिक्षिप्तमसम्बाधं रक्ष्यमाणमुदायुधैः
Verse 5
उत्तमं राक्षसावासं हनुमानवलोकयन् आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च परिक्षिप्तमसम्बाधं रक्ष्यमाणमुदायुधैः
Verse 6
राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम् आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम् वायुवेगसमाधूतं पन्नगैरिव सागरम्
Verse 7
राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम् आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम् वायुवेगसमाधूतं पन्नगैरिव सागरम्
Verse 8
या हि वैश्रवणे लक्ष्मीर्या चेन्द्रे हरिवाहने सा रावणगृहे सर्वा नित्यमेवानपायिनी
Verse 9
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह
Verse 10
तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितं बहुनिर्यूहसङ्कीर्णं ददर्श पवनात्मजः
Verse 11
ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा विमानं पुष्पकं नाम सर्वरत्नविभूषितम् परेण तपसा लेभे यत्कुबेरः पितामहात् कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः
Verse 12
ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा विमानं पुष्पकं नाम सर्वरत्नविभूषितम् परेण तपसा लेभे यत्कुबेरः पितामहात् कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः
Verse 13
ईहामृगसमायुक्त्तै: कार्तस्वरहिरमण्मयैः सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया मेरुमन्दरसङ्काशैरुल्लिखद्भिरिवाम्बरं कूटागारैश्शुभाकारैस्सर्वतस्समलङ्कृतम्
Verse 14
ईहामृगसमायुक्त्तै: कार्तस्वरहिरमण्मयैः सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया मेरुमन्दरसङ्काशैरुल्लिखद्भिरिवाम्बरं कूटागारैश्शुभाकारैस्सर्वतस्समलङ्कृतम्
Verse 15
ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा हेमसोपानसंयुक्तं चारुप्रवरवेदिकम्
Verse 16
जालवातायनैर्युक्तं काञ्चनैः स्स्फाटिकैरपि इन्द्रनीलमहानीलमणिप्रवरवेदिकम्
Verse 17
विद्रुमेण विचित्रेण मणिभिश्च महाघनैः निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम्
Verse 18
चन्दनेन च रक्तेन तपनीयनिभेन च सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम्
Verse 19
कूटागारैर्वराकारैर्विविधैस्समलङ्कृतम् विमानं पुष्पकं दिव्यमारुरोह महाकपिः
Verse 20
तत्रस्थस्स तदा गन्धं पानभक्ष्यान्नसम्भवम् दिव्यं सम्मूर्छितं जिघ्रद्रूपवन्तमिवानिलम्
Verse 21
स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम् इत एहीत्युवाचेन तत्र यत्र स रावणः
Verse 22
ततस्तां प्रस्थितश्शालां ददर्श महतीं शुभाम् रावणस्य मनः कान्तां कान्तामिव वरस्त्रियम्
Verse 23
मणिसोपानविकृतां हेमजालविभूषिताम् स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम्
Verse 24
मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि विभूषितां मणिस्तम्भैस्सुबहुस्तम्भभूषिताम्
Verse 25
नम्रैरृजुभिरत्युच्चैस्समन्तात्सुविभूषितैः स्तम्भै: पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव
Verse 26
महत्या कुथयास्तीर्णां पृथिवीलक्षणाङ्कया पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम्
Verse 27
नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् परार्ध्यास्तरणोपेतां रक्षोधिपनिषेविताम्
Verse 28
धूम्रामगरुधूपेन विमलां हंसपाण्डुराम् चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम्
Verse 29
मनस्संह्लादजननीं वर्णस्यापि प्रसादिनीम् तां शोकनाशिनीं दिव्यां श्रियः सञ्जननीमिव
Verse 30
इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः तर्पयामास मातेव तदा रावणपालिता
Verse 31
स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत् सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः
Verse 32
प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चनान् धूर्तानिव महाधूतैर्देवनेन पराजितान्
Verse 33
दीपानां च प्रकाशेन तेजसा रावणस्य च अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत
Verse 34
ततोऽपश्यत्कुथाऽऽसीनं नानावरायम्बरस्रजम् सहस्रं वरनारीणां नानावेषविभूषितम्
Verse 35
परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम् क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा
Verse 36
तत्प्रसुप्तं विरुरुचे निश्शब्दान्तरभूषणम् निःशब्दहंसभ्रमरं यथा पद्मवनं महत्
Verse 37
तासां संवृतदन्तानि मीलिताक्षीणि मारुतिः अपश्यत्पद्मगन्धीनि वदनानि सुयोषिताम्
Verse 38
प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये पुनस्संवृतपत्राणि रात्राविव बभुस्तदा
Verse 39
इमानि मुखपद्मानि नियतं मत्तषट्पदाः अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः
Verse 40
इति चामन्यत श्रीमानुपपत्त्या महाकपिः मेने हि गुणतस्तानि समानि सलिलोद्भवैः
Verse 41
सा तस्य शुशुभे शाला ताभिस्त्रीभिर्विराजिता शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता
Verse 42
स च ताभिः परिवृतश्शुशुभे राक्षसाधिपः यथा ह्युडुपतिश्शीमांस्ताराभिरभिसंवृतः
Verse 43
याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः इमास्तास्सङ्गताः कृत्स्ना इति मेने हरिस्तदा
Verse 44
ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम्
Verse 45
व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः पानव्यायामकालेषु निद्रापहृतचेतसः
Verse 46
व्यावृत्ततिलकाः काश्चित्काश्चिदुद्भ्रन्तनूपुराः पार्श्वे गलितहाराश्च काश्चित्परमयोषितः
Verse 47
मुक्ताहाराऽवृताश्चान्याः काश्चिद्विस्रस्तवाससः व्याविद्धरशनादामाः किशोर्य इव वाहिताः
Verse 48
सुकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः गजेन्द्रमृदिताः फुल्ला लता इव महावने
Verse 49
चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुत्कटाः हंसा इव बभुस्सुप्ताः स्तनमध्येषु योषिताम्
Verse 50
अपरासां च वैडूर्याः कादम्बा इव पक्षिणः हेमसूत्राणि चान्यासां चक्रवाका इवाभवन्
Verse 51
हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः आपगा इव ता रेजुर्जघनैः पुलिनैरिव
Verse 52
किङ्किणीजालसङ्कोशास्ता हैमविपुलाम्बुजाः भावग्राहा यशस्तीराः सुप्ता नद्य इवाऽऽबभुः
Verse 53
मृदुष्वङ्गेषु कासाञ्चित्कुचाग्रेषु च संस्थिताः बभुर्वर्भूषणानीव शुभा भूषणराजयः
Verse 54
अंशुकान्ताश्च कासाञ्चिन्मुखमारुतकम्पिताः उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः
Verse 55
ताः पताका इवोद्धूताः पत्नीनां रुचिरप्रभाः नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे
Verse 56
ववल्गुश्चात्र कासांचित्कुण्डलानि शुभार्चिषाम् मुखमारुतसंसर्गान्मन्दं मन्दं सुयोषिताम्
Verse 57
शर्कराऽसवगन्धैश्च प्रकृत्या सुरभिः सुखः तासां वदननिश्वासस्सिषेवे रावणं तदा
Verse 58
रावणाननशङ्काश्च काश्चिद्रावणयोषितः मुखानि स्म सपत्नीनामुपाजिघ्रन्पुनः पुनः
Verse 59
अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः अस्वतन्त्राः सपत्नीनां प्रियमेवाऽचरंस्तदा
Verse 60
बाहूनुपनिधायान्याः पारिहार्यविभूषितान् अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे
Verse 61
अन्या वक्षसि चान्यस्यास्तस्याः काचित्पुनर्भुजम् अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ
Verse 62
ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः
Verse 63
अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा
Verse 64
लतानां माधवे मासि फुल्लानां वायुसेवनात् अन्योन्य मालाग्रथितं संसक्तकुसुमोच्चयम् व्यतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम् आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत्
Verse 65
लतानां माधवे मासि फुल्लानां वायुसेवनात् अन्योन्य मालाग्रथितं संसक्तकुसुमोच्चयम् व्यतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम् आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत्
Verse 66
उचितेष्वपि सुव्यक्तं न तासां योषितां तदा विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम्
Verse 67
रावणे सुखसंविष्टे तास्त्रियो विविधप्रभाः ज्वलन्तः काञ्चना दीपाः प्रैक्षन्तानिमिषा इव
Verse 68
राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः राक्षसानां च याः कन्यास्तस्य कामवशं गताः
Verse 69
युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः समदा मदनेनैव मोहिताः काश्चिदागताः
Verse 70
न तत्र काचित्प्रमदा प्रसह्य वीर्योपपन्नेन गुणेन लब्धा न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजां ताम्
Verse 71
न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता भार्याभवत्तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया
Verse 72
बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी इमा यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः
Verse 73
पुनश्च सोऽचिन्तयादात्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता अथायमस्यां कृतवान्महात्मा लङ्केश्वरः कष्टमनार्यकर्म
0:000:00
Speed: