🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 1

Sarga 1

42 verses

Verse 1
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम्
Verse 2
कौशिको ऽथ यवक्रीतो गार्ग्यो गालव एव  कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः
Verse 3
स्वस्त्यात्रेयो ऽथ भगवान्नमुचिः प्रमुचिस्तथा आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम्
Verse 4
नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः ते ऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम्
Verse 5
वसिष्ठः कश्यपो ऽथात्रिर्विश्वामित्रः सगौतमः जमदग्निर्भरद्वाजस्ते ऽपि सप्तर्षयस्तथा
Verse 6
उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः
Verse 7
सम्प्राप्य ते महात्मानो राघवस्य निवेशनम् विष्टिताः प्रतिहारार्थं हुताशनसमप्रभाः वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः
Verse 8
द्वाःस्थं प्रोवाच धर्मात्मा अगस्त्यो मुनिसत्तमः निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान्
Verse 9
प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्द्रुतम् समीपं राघवस्याशु प्रविवेश महात्मनः
Verse 10
नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः  रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम्
Verse 11
अगस्त्यं कथयामास सम्प्राप्तमृषिभिः सह
Verse 12
श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् प्रत्युवाच ततो द्वास्स्थं प्रवेशय यथासुखम्
Verse 13
तान् सम्प्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः पाद्यार्घ्यादिभिरानर्च गां निवेद्य  सादरम्
Verse 14
रामो ऽभिवाद्य प्रयत आसनान्यादिदेश  तेषु काञ्चनचित्रेषु महत्सु  वरेषु 
Verse 15
कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु  यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः
Verse 16
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः महर्षयो वेदविदो रामं वचनमब्रुवन्
Verse 17
कुशलं नो महाबाहो सर्वत्र रघुनन्दन त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम्
Verse 18
दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः  हि भारः  ते राम रावणः पुत्रपौत्रवान्
Verse 19
सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा  संशयः दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः
Verse 20
दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया लक्ष्मणेन  धर्मात्मन्भ्रात्रा त्वद्धितकारिणा
Verse 21
मातृभिर्भ्रातृसहितं पश्यामो ऽद्य वयं नृप दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः
Verse 22
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः
Verse 23
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ दिष्ट्या ते निहता राम महावीर्या निशाचराः
Verse 24
कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे
Verse 25
युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः
Verse 26
कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया
Verse 27
दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः देवतानामवध्येन विजयं प्राप्तवानसि
Verse 28
सङ्ख्ये तस्य  किञ्चित्तु रावणस्य पराभवः द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः
Verse 29
दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया
Verse 30
अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् सो ऽवध्यः सर्वभूतानां महामायाधरो युधि
Verse 31
विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम्
Verse 32
एते चान्ये  बहवो राक्षसाः कामरूपिणः दिष्ट्या त्वया हता वीरा रघूणां कुलवर्द्धन
Verse 33
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन
Verse 34
श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत्
Verse 35
भगवन्तः कुम्भकर्णं रावणं  निशाचरम् अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम्
Verse 36
महोदरं प्रहस्तं  विरूपाक्षं  राक्षसम् मत्तोन्मत्तौ  दुर्धर्षौ देवान्तकनरान्तकौ
Verse 37
अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम्
Verse 38
अतिकायं त्रिशिरसं धूम्राक्षं  निशाचरम् अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम्
Verse 39
कीदृशो वै प्रभावो ऽस्य किं बलं कः पराक्रमः केन वा कारणेनैष रावणादतिरिच्यते
Verse 40
शक्यं यदि मया श्रोतुं  खल्वाज्ञापयामि वः यदि गुह्यं  चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम्
Verse 41
शक्रो ऽपि विजितस्तेन कथं लब्धवरश्च सः कथं  बलवानन्पुत्रो  पिता तस्य रावणः
Verse 42
कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं  राक्षसः वराश्च लब्धाः कथयस्व मे ऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम्
0:000:00
Speed: