🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 2

Sarga 2

34 verses

Verse 1
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः कुम्भयोनिर्मिहातेजा राममेतदुवाच 
Verse 2
शृणु राम कथावृत्तं तस्य तेजोबलं महत् जघान शत्रून्येनासौ   वध्यः  शत्रुभिः
Verse 3
तावत्ते रावणस्येदं कुलं जन्म  राघव वरप्रदानं  तथा तस्मै दत्तं ब्रवीमि ते
Verse 4
पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः
Verse 5
नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः
Verse 6
प्रजापतिसुतत्वेन देवानां वल्लभो हि सः हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः
Verse 7
 तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः
Verse 8
तपस्तेपे  धर्मात्मा स्वाध्यायनियतेन्द्रियः गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः
Verse 9
देवपन्नगकन्याश्च राजर्षितनयाश्च याः क्रीडन्त्यो ऽप्सरसश्चैव तं देशमुपपेदिरे
Verse 10
सर्वर्तुषृपभोग्यत्वाद्रम्यत्वात्काननस्य  नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः
Verse 11
देशस्य रमणीयत्वात्पुलस्त्यो यत्र  द्विजः गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव  मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः
Verse 12
अथ क्रुद्धो महातेजा व्याजहार महामुनिः या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति
Verse 13
तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः
Verse 14
तृणबिन्दोस्तु राजर्षेस्तनया  शृणोति तत्
Verse 15
गत्वाश्रमपदं तत्र विचचार सुनिर्भया  सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम्
Verse 16
तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम्
Verse 17
सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा
Verse 18
वभूव  समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः इदं मे किन्त्विति ज्ञात्वा पितुर्गत्वा  ऽश्रमे स्थिता
Verse 19
तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत् किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः
Verse 20
सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम्  जाने कारणं तात येन मे रूपमीदृशम्
Verse 21
किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम्
Verse 22
  पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम् रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता
Verse 23
तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम्
Verse 24
 तु विज्ञाय तं शापं महर्षेर्भावितात्मनः गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत्
Verse 25
भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम्
Verse 26
तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते शुश्रूषणपरा नित्यं भविष्यति  संशयः
Verse 27
तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा जिघृक्षुरब्रवीत्कन्यां बाढमित्येव  द्विजः
Verse 28
दत्त्वा  तु यथान्यायं स्वमाश्रमपदं गतः सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः
Verse 29
तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः प्रीतः  तु महातेजा वाक्यमेतदुवाच 
Verse 30
परितुष्टो ऽस्मि सुश्रोणि गुणानां सम्पदा भृशम् तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव
Verse 31
उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् यस्मात्तु विश्रुतो वेदस्त्वयैषो ऽध्ययतो मम
Verse 32
तस्मात्स विश्रवा नाम भविष्यति  संशयः एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना
Verse 33
अचिरेणैव कालेनासूत विश्रवसं सुतम् त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम्
Verse 34
श्रुतिमान्समदर्शी  व्रताचाररतस्तथा पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः
0:000:00
Speed: