Book 7 • Chapter 3
Sarga 3
36 verses
Verse 1
अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः अचिरेणैव कालेन पितेव तपसि स्थितः
Verse 2
सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः
Verse 3
ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम्
Verse 4
प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा प्रजान्वेक्षिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन्
Verse 5
मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम्
Verse 6
जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम् तस्मिञ्जाते तु संहृष्टः सम्बभूव पितामहः
Verse 7
दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा
Verse 8
यस्माद्विश्रवसो ऽपत्यं सादृश्याद्विश्रवा इव तस्माद्वैश्रवणो नाम भविष्यत्वेष विश्रुतः
Verse 9
स तु वैश्रवणस्तत्र तपोवनगतस्तदा अवर्धताहुतिहुतो महातेजा यथानलः
Verse 10
तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः चरिष्ये परमं धर्मं धर्मो हि परमा गतिः
Verse 11
स तु वर्षसहस्राणि तपस्तप्त्वा महावने यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः
Verse 12
पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् जलाशी मारुताहारो निराहारस्तथैव च
Verse 13
एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह
Verse 14
गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते
Verse 15
अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम्
Verse 16
अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत्
Verse 17
अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः
Verse 18
यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम् तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि शक्राम्बुपयमानां च चतुर्थस्त्वं भविष्यसि
Verse 19
एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम् प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज
Verse 20
स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् कृतकृत्या वयं तात दत्त्वा तव वरद्वयम्
Verse 21
इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह
Verse 22
गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्थलम् वने स पितरं प्राह प्राञ्जलिः प्रयतात्मवान् निवासनं न मे देवो विदधे स प्रजापतिः
Verse 23
भगवँल्लब्धवानस्मि वरमिष्टं पितामहात् तं पश्य भगवन्कञ्चिन्निवासं साधु मे प्रभो
Verse 24
न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः
Verse 25
वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तमः दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः
Verse 26
तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा
Verse 27
राक्षसानां निवासार्थं यथेन्द्रस्यामरावती तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः
Verse 28
हेमप्राकारपरिघा यन्त्रशस्त्रसमावृता रमणीया पुरी सा हि रुक्मवैडूर्यतोरणा
Verse 29
राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः शून्या रक्षोगणैः सर्वै रसातलतलं गतैः
Verse 30
शून्या सम्प्रति लङ्का सा प्रभुस्तस्या न विद्यते स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम्
Verse 31
निर्दोषस्तत्र ते वासो न बाधास्तत्र कस्यचित् एतच्छुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः
Verse 32
निवासयामास तदा लङ्कां पर्वतमूर्धनि नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदुतैः सह
Verse 33
अचिरेणैव कालेन सम्पूर्णा तस्य शासनात्
Verse 34
स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः
Verse 35
काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि
Verse 36
स देवगन्धर्वगणैरभिष्टुतस्तथाप्सरोनृत्यविभूषितालयः गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ स वित्तपः
0:000:00
Speed: